Ṛgveda · Maṇḍala 10 · Sūkta 66
Ṛk 10.66.4
Saṃhitā
अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिंद्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् ।
दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सं ॥
अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः स्वर् बृहत् |
देवां आदित्यां अवसे हवामहे वसून् रुद्रान् सवितारं सुदंससम् ||
áditirdyā́vāpṛthivī́ ṛtám mahádíndrāvíṣṇū marútaḥ svárbṛhát ǀ
devā́m̐ ādityā́m̐ ávase havāmahe vásūnrudrā́ntsavitā́ram sudáṃsasam ǁ
aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat |
devāṃ ādityāṃ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam ||
Padapāṭha
अदि॑तिः । द्यावा॑पृथि॒वी इति॑ । ऋ॒तम् । म॒हत् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् ।
दे॒वान् । आ॒दि॒त्यान् । अव॑से । ह॒वा॒म॒हे॒ । वसू॑न् । रु॒द्रान् । स॒वि॒तार॑म् । सु॒ऽदंस॑सम् ॥
अदितिः । द्यावापृथिवी इति । ऋतम् । महत् । इन्द्राविष्णू इति । मरुतः । स्वः । बृहत् ।
देवान् । आदित्यान् । अवसे । हवामहे । वसून् । रुद्रान् । सवितारम् । सुऽदंससम् ॥
áditiḥ ǀ dyā́vāpṛthivī́ íti ǀ ṛtám ǀ mahát ǀ índrāvíṣṇū íti ǀ marútaḥ ǀ sváḥ ǀ bṛhát ǀ
devā́n ǀ ādityā́n ǀ ávase ǀ havāmahe ǀ vásūn ǀ rudrā́n ǀ savitā́ram ǀ su-dáṃsasam ǁ
aditiḥ ǀ dyāvāpṛthivī iti ǀ ṛtam ǀ mahat ǀ indrāviṣṇū iti ǀ marutaḥ ǀ svaḥ ǀ bṛhat ǀ
devān ǀ ādityān ǀ avase ǀ havāmahe ǀ vasūn ǀ rudrān ǀ savitāram ǀ su-daṃsasam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.066.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.12.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.091
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasukarṇa Vāsukra
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.