Ṛgveda · Maṇḍala 10 · Sūkta 72
Ṛk 10.72.2
Saṃhitā
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् ।
दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ॥
ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् |
देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत ||
bráhmaṇaspátiretā́ sám karmā́ra ivādhamat ǀ
devā́nām pūrvyé yugé’sataḥ sádajāyata ǁ
brahmaṇas patir etā saṃ karmāra ivādhamat |
devānām pūrvye yuge 'sataḥ sad ajāyata ||
Padapāṭha
ब्रह्म॑णः । पतिः॑ । ए॒ता । सम् । क॒र्मारः॑ऽइव । अ॒ध॒म॒त् ।
दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ॥
ब्रह्मणः । पतिः । एता । सम् । कर्मारःऽइव । अधमत् ।
देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ॥
bráhmaṇaḥ ǀ pátiḥ ǀ etā́ ǀ sám ǀ karmā́raḥ-iva ǀ adhamat ǀ
devā́nām ǀ pūrvyé ǀ yugé ǀ ásataḥ ǀ sát ǀ ajāyata ǁ
brahmaṇaḥ ǀ patiḥ ǀ etā ǀ sam ǀ karmāraḥ-iva ǀ adhamat ǀ
devānām ǀ pūrvye ǀ yuge ǀ asataḥ ǀ sat ǀ ajāyata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.072.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.01.02
- Maṇḍala · Anuvāka · Ṛk
- 10.06.036
- Devatā देवता
- Devāḥ
- Ṛṣi ऋषि
- Bṛhaspati Āṅgirasa Or Bṛhaspati Laukya Or Aditi Dākṣāyaṇī
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.