Ṛgveda · Maṇḍala 10 · Sūkta 72
Ṛk 10.72.3
Saṃhitā
दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत ।
तदाशा॒ अन्व॑जायंत॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥
देवानां युगे प्रथमे ऽसतः सद् अजायत |
तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ||
devā́nām yugé prathamé’sataḥ sádajāyata ǀ
tádā́śā ánvajāyanta táduttānápadaspári ǁ
devānāṃ yuge prathame 'sataḥ sad ajāyata |
tad āśā anv ajāyanta tad uttānapadas pari ||
Padapāṭha
दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ।
तत् । आशाः॑ । अनु॑ । अ॒जा॒य॒न्त॒ । तत् । उ॒त्ता॒नऽप॑दः । परि॑ ॥
देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ।
तत् । आशाः । अनु । अजायन्त । तत् । उत्तानऽपदः । परि ॥
devā́nām ǀ pūrvyé ǀ yugé ǀ ásataḥ ǀ sát ǀ ajāyata ǀ
tát ǀ ā́śāḥ ǀ ánu ǀ ajāyanta ǀ tát ǀ uttāná-padaḥ ǀ pári ǁ
devānām ǀ pūrvye ǀ yuge ǀ asataḥ ǀ sat ǀ ajāyata ǀ
tat ǀ āśāḥ ǀ anu ǀ ajāyanta ǀ tat ǀ uttāna-padaḥ ǀ pari ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.072.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.01.03
- Maṇḍala · Anuvāka · Ṛk
- 10.06.037
- Devatā देवता
- Devāḥ
- Ṛṣi ऋषि
- Bṛhaspati Āṅgirasa Or Bṛhaspati Laukya Or Aditi Dākṣāyaṇī
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.