Ṛgveda · Maṇḍala 10 · Sūkta 166

Ṛk 10.166.5

Sapatnaghnam · Ṛṣabha Vairāja Or Ṛṣabha Śākvara

The whole sūkta Link

Saṃhitā

यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीं ।
अ॒ध॒स्प॒दान्म॒ उद्व॑दत मं॒डूका॑ इवोद॒कान्मं॒डूका॑ उद॒कादि॑व ॥

योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् |
अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव ||

yogakṣemám va ādā́yāhám bhūyāsamuttamá ā́ vo mūrdhā́namakramīm ǀ
adhaspadā́nma údvadata maṇḍū́kā ivodakā́nmaṇḍū́kā udakā́diva ǁ

yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm |
adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva ||

Padapāṭha

यो॒ग॒ऽक्षे॒मम् । वः॒ । आ॒ऽदाय॑ । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒मः । आ । वः॒ । मू॒र्धान॑म् । अ॒क्र॒मी॒म् ।
अ॒धः॒ऽप॒दात् । मे॒ । उत् । व॒द॒त॒ । म॒ण्डूकाः॑ऽइव । उ॒द॒कात् । म॒ण्डूकाः॑ । उ॒द॒कात्ऽइ॑व ॥

योगऽक्षेमम् । वः । आऽदाय । अहम् । भूयासम् । उत्ऽतमः । आ । वः । मूर्धानम् । अक्रमीम् ।
अधःऽपदात् । मे । उत् । वदत । मण्डूकाःऽइव । उदकात् । मण्डूकाः । उदकात्ऽइव ॥

yoga-kṣemám ǀ vaḥ ǀ ā-dā́ya ǀ ahám ǀ bhūyāsam ǀ ut-tamáḥ ǀ ā́ ǀ vaḥ ǀ mūrdhā́nam ǀ akramīm ǀ
adhaḥ-padā́t ǀ me ǀ út ǀ vadata ǀ maṇḍū́kāḥ-iva ǀ udakā́t ǀ maṇḍū́kāḥ ǀ udakā́t-iva ǁ

yoga-kṣemam ǀ vaḥ ǀ ā-dāya ǀ aham ǀ bhūyāsam ǀ ut-tamaḥ ǀ ā ǀ vaḥ ǀ mūrdhānam ǀ akramīm ǀ
adhaḥ-padāt ǀ me ǀ ut ǀ vadata ǀ maṇḍūkāḥ-iva ǀ udakāt ǀ maṇḍūkāḥ ǀ udakāt-iva ǁ

References

Maṇḍala · Sūkta · Ṛk
10.166.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.24.05
Maṇḍala · Anuvāka · Ṛk
10.12.078
Devatā देवता
Sapatnaghnam
Ṛṣi ऋषि
Ṛṣabha Vairāja Or Ṛṣabha Śākvara
Chandas छन्दस्
Anuṣṭubh, Mahāpaṅkti
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.166.5

Interpretations

Sāyaṇa

हे सपत्नाः वो युश्माकं योगक्षेमम्। अप्राप्तस्य धनस्य प्राप्तिर्योगः। प्राप्तस्य रक्षणं क्षेमः। तदुभयमादाय युष्मत्तो गृहीत्वाहमुत्तमः श्रेष्ठो भूयास ततो वो युश्माकं मूर्धानं शिर आक्रमीं। आक्रमिषम्। पादेनाधितिष्ठामि। क्रमेर्लुङ्यमो मश्। पा. ७-१-४०। इट ईटीति सिचो लोपः। अदन्तरम् मे ममाधस्पदात्पादस्याधस्ताद्वर्तमाना यूयमुद्वदत। उच्चैराक्रोशत। उदकाद्वृष्टिजलादधः प्रदेशे वर्तमाना मण्डूका इव। यथा ते भृशमाक्रोशन्ति तथोद्वदतेत्यर्थः। मण्डूका उदकादिवेति पुनरुक्तिरादरार्था॥५॥