Ṛgveda · Maṇḍala 10 · Sūkta 166
Ṛk 10.166.3
Saṃhitā
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ ।
वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥
अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया |
वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ||
átraivá vó’pi nahyāmyubhé ā́rtnī iva jyáyā ǀ
vā́caspate ní ṣedhemā́nyáthā mádádharam vádān ǁ
atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā |
vācas pate ni ṣedhemān yathā mad adharaṃ vadān ||
Padapāṭha
अत्र॑ । ए॒व । वः॒ । अपि॑ । न॒ह्या॒मि॒ । उ॒भे इति॑ । आर्त्नी॑ इ॒वेत्यार्त्नी॑ऽइव । ज्यया॑ ।
वाचः॑ । प॒ते॒ । नि । से॒ध॒ । इ॒मान् । यथा॑ । मत् । अध॑रम् । वदा॑न् ॥
अत्र । एव । वः । अपि । नह्यामि । उभे इति । आर्त्नी इवेत्यार्त्नीऽइव । ज्यया ।
वाचः । पते । नि । सेध । इमान् । यथा । मत् । अधरम् । वदान् ॥
átra ǀ evá ǀ vaḥ ǀ ápi ǀ nahyāmi ǀ ubhé íti ǀ ā́rtnī ivetyā́rtnī-iva ǀ jyáyā ǀ
vā́caḥ ǀ pate ǀ ní ǀ sedha ǀ imā́n ǀ yáthā ǀ mát ǀ ádharam ǀ vádān ǁ
atra ǀ eva ǀ vaḥ ǀ api ǀ nahyāmi ǀ ubhe iti ǀ ārtnī ivetyārtnī-iva ǀ jyayā ǀ
vācaḥ ǀ pate ǀ ni ǀ sedha ǀ imān ǀ yathā ǀ mat ǀ adharam ǀ vadān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.166.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.24.03
- Maṇḍala · Anuvāka · Ṛk
- 10.12.076
- Devatā देवता
- Sapatnaghnam
- Ṛṣi ऋषि
- Ṛṣabha Vairāja Or Ṛṣabha Śākvara
- Chandas छन्दस्
- Anuṣṭubh, Mahāpaṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.