Ṛgveda · Maṇḍala 10 · Sūkta 157

Ṛk 10.157.5

Viśvedevās · Bhuvana Āptya Or Sādhana Bhauvana

The whole sūkta Link

Saṃhitā

प्र॒त्यंच॑म॒र्कम॑नयं॒छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

प्रत्यञ्चम् अर्कम् अनयञ् छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ||

pratyáñcamarkámanayañchácībhirā́dítsvadhā́miṣirā́m páryapaśyan ǁ

pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan ||

Padapāṭha

प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥

प्रत्यञ्चम् । अर्कम् । अनयन् । शचीभिः । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥

pratyáñcam ǀ arkám ǀ anayan ǀ śácībhiḥ ǀ ā́t ǀ ít ǀ svadhā́m ǀ iṣirā́m ǀ pári ǀ apaśyan ǁ

pratyañcam ǀ arkam ǀ anayan ǀ śacībhiḥ ǀ āt ǀ it ǀ svadhām ǀ iṣirām ǀ pari ǀ apaśyan ǁ

References

Maṇḍala · Sūkta · Ṛk
10.157.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.15.05
Maṇḍala · Anuvāka · Ṛk
10.12.030
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Bhuvana Āptya Or Sādhana Bhauvana
Chandas छन्दस्
Dvipadā Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.157.5

Interpretations

Sāyaṇa

शचीभिः कर्मभिः परिचरनात्मकैः सार्धमर्कमर्चनसाधनं स्तोत्रं प्रत्यञ्चमिन्द्रादीन्प्रत्यञ्चदनयन्। स्तोतारः प्रापयन्। यदैवं आदिदनन्तरमेवेषिरां गमनशीलं स्वधां वृष्ट्युदकं पर्यपश्यन्। सर्वे जनाः परितः पश्यन्ति। यद्वा। इषिरामेषणीयां स्वधां। अन्ननामैतत्। हविर्लक्षनमन्नं सर्वे देवाः परिपश्यन्ति॥५॥