Ṛgveda · Maṇḍala 10 · Sūkta 5
Ṛk 10.5.1
Saṃhitā
एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे ।
सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥
एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि चष्टे |
सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम् पदं वेः ||
ékaḥ samudró dharúṇo rayīṇā́masmáddhṛdó bhū́rijanmā ví caṣṭe ǀ
síṣaktyū́dharniṇyórupástha útsasya mádhye níhitam padám veḥ ǁ
ekaḥ samudro dharuṇo rayīṇām asmad dhṛdo bhūrijanmā vi caṣṭe |
siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ ||
Padapāṭha
एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ ।
सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥
एकः । समुद्रः । धरुणः । रयीणाम् । अस्मत् । हृदः । भूरिऽजन्मा । वि । चष्टे ।
सिसक्ति । ऊधः । निण्योः । उपऽस्थे । उत्सस्य । मध्ये । निऽहितम् । पदम् । वेरिति वेः ॥
ékaḥ ǀ samudráḥ ǀ dharúṇaḥ ǀ rayīṇā́m ǀ asmát ǀ hṛdáḥ ǀ bhū́ri-janmā ǀ ví ǀ caṣṭe ǀ
sísakti ǀ ū́dhaḥ ǀ niṇyóḥ ǀ upá-sthe ǀ útsasya ǀ mádhye ǀ ní-hitam ǀ padám ǀ véríti véḥ ǁ
ekaḥ ǀ samudraḥ ǀ dharuṇaḥ ǀ rayīṇām ǀ asmat ǀ hṛdaḥ ǀ bhūri-janmā ǀ vi ǀ caṣṭe ǀ
sisakti ǀ ūdhaḥ ǀ niṇyoḥ ǀ upa-sthe ǀ utsasya ǀ madhye ǀ ni-hitam ǀ padam ǀ veriti veḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.005.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.33.01
- Maṇḍala · Anuvāka · Ṛk
- 10.01.029
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.