Ṛgveda · Maṇḍala 10 · Sūkta 5
Ṛk 10.5.5
Saṃhitā
स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कं ।
अं॒तर्ये॑मे अं॒तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥
सप्त स्वसॄर् अरुषीर् वावशानो विद्वान् मध्व उज् जभारा दृशे कम् |
अन्तर् येमे अन्तरिक्षे पुराजा इच्छन् वव्रिम् अविदत् पूषणस्य ||
saptá svásṝráruṣīrvāvaśānó vidvā́nmádhva újjabhārā dṛśé kám ǀ
antáryeme antárikṣe purājā́ icchánvavrímavidatpūṣaṇásya ǁ
sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam |
antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya ||
Padapāṭha
स॒प्त । स्वसॄः॑ । अरु॑षीः । वा॒व॒शा॒नः । वि॒द्वान् । मध्वः॑ । उत् । ज॒भा॒र॒ । दृ॒शे । कम् ।
अ॒न्तः । ये॒मे॒ । अ॒न्तरि॑क्षे । पु॒रा॒ऽजाः । इ॒च्छन् । व॒व्रिम् । अ॒वि॒द॒त् । पू॒ष॒णस्य॑ ॥
सप्त । स्वसॄः । अरुषीः । वावशानः । विद्वान् । मध्वः । उत् । जभार । दृशे । कम् ।
अन्तः । येमे । अन्तरिक्षे । पुराऽजाः । इच्छन् । वव्रिम् । अविदत् । पूषणस्य ॥
saptá ǀ svásṝḥ ǀ áruṣīḥ ǀ vāvaśānáḥ ǀ vidvā́n ǀ mádhvaḥ ǀ út ǀ jabhāra ǀ dṛśé ǀ kám ǀ
antáḥ ǀ yeme ǀ antárikṣe ǀ purā-jā́ḥ ǀ icchán ǀ vavrím ǀ avidat ǀ pūṣaṇásya ǁ
sapta ǀ svasṝḥ ǀ aruṣīḥ ǀ vāvaśānaḥ ǀ vidvān ǀ madhvaḥ ǀ ut ǀ jabhāra ǀ dṛśe ǀ kam ǀ
antaḥ ǀ yeme ǀ antarikṣe ǀ purā-jāḥ ǀ icchan ǀ vavrim ǀ avidat ǀ pūṣaṇasya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.005.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.33.05
- Maṇḍala · Anuvāka · Ṛk
- 10.01.033
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.