Ṛgveda · Maṇḍala 10 · Sūkta 5
Ṛk 10.5.3
Saṃhitā
ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धयं॑ती ।
विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तंतुं॒ मन॑सा वि॒यंतः॑ ॥
ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर् वर्धयन्ती |
विश्वस्य नाभिं चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा वियन्तः ||
ṛtāyínī māyínī sám dadhāte mitvā́ śíśum jajñaturvardháyantī ǀ
víśvasya nā́bhim cárato dhruvásya kavéścittántum mánasā viyántaḥ ǁ
ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī |
viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ ||
Padapāṭha
ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ ।
विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥
ऋतयिनी इत्यृतऽयिनी । मायिनी इति । सम् । दधाते इति । मित्वा । शिशुम् । जज्ञतुः । वर्धयन्ती इति ।
विश्वस्य । नाभिम् । चरतः । ध्रुवस्य । कवेः । चित् । तन्तुम् । मनसा । विऽयन्तः ॥
ṛtayínī ítyṛta-yínī ǀ māyínī íti ǀ sám ǀ dadhāte íti ǀ mitvā́ ǀ śíśum ǀ jajñatuḥ ǀ vardháyantī íti ǀ
víśvasya ǀ nā́bhim ǀ cárataḥ ǀ dhruvásya ǀ kavéḥ ǀ cit ǀ tántum ǀ mánasā ǀ vi-yántaḥ ǁ
ṛtayinī ityṛta-yinī ǀ māyinī iti ǀ sam ǀ dadhāte iti ǀ mitvā ǀ śiśum ǀ jajñatuḥ ǀ vardhayantī iti ǀ
viśvasya ǀ nābhim ǀ carataḥ ǀ dhruvasya ǀ kaveḥ ǀ cit ǀ tantum ǀ manasā ǀ vi-yantaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.005.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.33.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.031
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.