Ṛgveda · Maṇḍala 10 · Sūkta 139
Ṛk 10.139.4
Saṃhitā
वि॒श्वाव॑सुं सोम गंध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् ।
तद॒न्ववै॒दिंद्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥
विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् |
तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधींर् अपश्यत् ||
viśvā́vasum soma gandharvámā́po dadṛśúṣīstádṛténā vyā́yan ǀ
tádanvávaidíndro rārahāṇá āsām pári sū́ryasya paridhī́m̐rapaśyat ǁ
viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan |
tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat ||
Padapāṭha
वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् ।
तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥
विश्वऽवसुम् । सोम । गन्धर्वम् । आपः । ददृशुषीः । तत् । ऋतेन । वि । आयन् ।
तत् । अनुऽअवैत् । इन्द्रः । ररहाणः । आसाम् । परि । सूर्यस्य । परिऽधीन् । अपश्यत् ॥
viśvá-vasum ǀ soma ǀ gandharvám ǀ ā́paḥ ǀ dadṛśúṣīḥ ǀ tát ǀ ṛténa ǀ ví ǀ āyan ǀ
tát ǀ anu-ávait ǀ índraḥ ǀ rarahāṇáḥ ǀ āsām ǀ pári ǀ sū́ryasya ǀ pari-dhī́n ǀ apaśyat ǁ
viśva-vasum ǀ soma ǀ gandharvam ǀ āpaḥ ǀ dadṛśuṣīḥ ǀ tat ǀ ṛtena ǀ vi ǀ āyan ǀ
tat ǀ anu-avait ǀ indraḥ ǀ rarahāṇaḥ ǀ āsām ǀ pari ǀ sūryasya ǀ pari-dhīn ǀ apaśyat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.139.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.27.04
- Maṇḍala · Anuvāka · Ṛk
- 10.11.073
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Viśvāvasu Devagandharva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.