Ṛgveda · Maṇḍala 10 · Sūkta 139
Ṛk 10.139.1
Saṃhitā
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रं ।
तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्सं॒पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयां अजस्रम् |
तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः ||
sū́ryaraśmirhárikeśaḥ purástātsavitā́ jyótirúdayām̐ ájasram ǀ
tásya pūṣā́ prasavé yāti vidvā́ntsampáśyanvíśvā bhúvanāni gopā́ḥ ǁ
sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṃ ajasram |
tasya pūṣā prasave yāti vidvān sampaśyan viśvā bhuvanāni gopāḥ ||
Padapāṭha
सू॒र्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् ।
तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति॒ । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥
सूर्यऽरश्मिः । हरिऽकेशः । पुरस्तात् । सविता । ज्योतिः । उत् । अयान् । अजस्रम् ।
तस्य । पूषा । प्रऽसवे । याति । विद्वान् । सम्ऽपश्यन् । विश्वा । भुवनानि । गोपाः ॥
sūryá-raśmiḥ ǀ hári-keśaḥ ǀ purástāt ǀ savitā́ ǀ jyótiḥ ǀ út ǀ ayān ǀ ájasram ǀ
tásya ǀ pūṣā́ ǀ pra-savé ǀ yāti ǀ vidvā́n ǀ sam-páśyan ǀ víśvā ǀ bhúvanāni ǀ gopā́ḥ ǁ
sūrya-raśmiḥ ǀ hari-keśaḥ ǀ purastāt ǀ savitā ǀ jyotiḥ ǀ ut ǀ ayān ǀ ajasram ǀ
tasya ǀ pūṣā ǀ pra-save ǀ yāti ǀ vidvān ǀ sam-paśyan ǀ viśvā ǀ bhuvanāni ǀ gopāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.139.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.27.01
- Maṇḍala · Anuvāka · Ṛk
- 10.11.070
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Viśvāvasu Devagandharva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.