Ṛgveda · Maṇḍala 10 · Sūkta 138

Ṛk 10.138.6

Indra · Aṅga Aurava

The whole sūkta Link

Saṃhitā

ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञं ।
मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥

एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् |
मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता ||

etā́ tyā́ te śrútyāni kévalā yádéka ékamákṛṇorayajñám ǀ
māsā́m vidhā́namadadhā ádhi dyávi tváyā víbhinnam bharati pradhím pitā́ ǁ

etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam |
māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā ||

Padapāṭha

ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् ।
मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽधिम् । पि॒ता ॥

एता । त्या । ते । श्रुत्यानि । केवला । यत् । एकः । एकम् । अकृणोः । अयज्ञम् ।
मासाम् । विऽधानम् । अदधाः । अधि । द्यवि । त्वया । विऽभिन्नम् । भरति । प्रऽधिम् । पिता ॥

etā́ ǀ tyā́ ǀ te ǀ śrútyāni ǀ kévalā ǀ yát ǀ ékaḥ ǀ ékam ǀ ákṛṇoḥ ǀ ayajñám ǀ
māsā́m ǀ vi-dhā́nam ǀ adadhāḥ ǀ ádhi ǀ dyávi ǀ tváyā ǀ ví-bhinnam ǀ bharati ǀ pra-dhím ǀ pitā́ ǁ

etā ǀ tyā ǀ te ǀ śrutyāni ǀ kevalā ǀ yat ǀ ekaḥ ǀ ekam ǀ akṛṇoḥ ǀ ayajñam ǀ
māsām ǀ vi-dhānam ǀ adadhāḥ ǀ adhi ǀ dyavi ǀ tvayā ǀ vi-bhinnam ǀ bharati ǀ pra-dhim ǀ pitā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.138.06
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.26.06
Maṇḍala · Anuvāka · Ṛk
10.11.069
Devatā देवता
Indra
Ṛṣi ऋषि
Aṅga Aurava
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.138.6

Interpretations

Sāyaṇa

हे इन्द्र त्या तानि ते तव त्वदीयानि वीर्यकर्माण्येतैतान्येव केवला केवलानि श्रुत्यानि श्रोतव्यानि स्तुत्यर्हाणि। नान्यदीयानि। कानि पुनस्तानि। एकोऽसहायस्त्वमेकं प्रधानभूतमयज्ञं यज्ञरहितमसुरमकृणॊः अहिंसीरिति यदेतदेकं कर्म। कृवि हिंसाकरणयोः। अत्र हिंसार्थः। इदित्त्वान्नुम्। धिन्विकृण्व्योरच्चेत्युप्रत्ययोऽकारान्तादेशश्च। तस्य लोपे सति स्थानिवद्भावल्लघूपधगुणाभावः। तथा मासां मासानां। पद्दन्नित्यादिना मासशब्दस्य मास्भावः। ऊडिदमित्यादिना विभक्तेरुदात्तत्वम्। मासानां विधानं विधातारं कर्तारं सूर्यमधि द्यवि द्युलोक उपर्यदधाः। अधारयः। विपूर्वाद्दधातेः कृत्यल्युटो बहुलमिति कर्तरि ल्युट्। इदमपरं कर्म। तथा पिता पालको द्युलोको विभिन्नं विदारितं वृत्राद्विभक्तं प्रधिं रथचक्रस्य पार्श्वम्। पार्श्वफलके प्रधी इत्युच्येते। ईदृशं सूर्यरथसम्बन्धिनं प्रधिमन्यैर्धारयितुमशक्यं त्वयैव भरति। धारयति। इदमपरं कर्म। एतत्प्रभृतीनि त्वया कृतानि कर्माणि परेषामसाधारनानि सर्वदाम्ना तव्यानीत्यर्थः॥६॥