Ṛgveda · Maṇḍala 10 · Sūkta 138
Ṛk 10.138.1
Saṃhitā
तव॒ त्य इं॑द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लं ।
यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सयः॑ ॥
तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् |
यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दंसयः ||
táva tyá indra sakhyéṣu váhnaya ṛtám manvānā́ vyádardirurvalám ǀ
yátrā daśasyánnuṣáso riṇánnapáḥ kútsāya mánmannahyáśca daṃsáyaḥ ǁ
tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam |
yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ ||
Padapāṭha
तव॑ । त्ये । इ॒न्द्र॒ । स॒ख्येषु॑ । वह्न॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् ।
यत्र॑ । द॒श॒स्यन् । उ॒षसः॑ । रि॒णन् । आ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्यः॑ । च॒ । दं॒सयः॑ ॥
तव । त्ये । इन्द्र । सख्येषु । वह्नयः । ऋतम् । मन्वानाः । वि । अदर्दिरुः । वलम् ।
यत्र । दशस्यन् । उषसः । रिणन् । आपः । कुत्साय । मन्मन् । अह्यः । च । दंसयः ॥
táva ǀ tyé ǀ indra ǀ sakhyéṣu ǀ váhnayaḥ ǀ ṛtám ǀ manvānā́ḥ ǀ ví ǀ adardiruḥ ǀ valám ǀ
yátra ǀ daśasyán ǀ uṣásaḥ ǀ riṇán ǀ āpáḥ ǀ kútsāya ǀ mánman ǀ ahyáḥ ǀ ca ǀ daṃsáyaḥ ǁ
tava ǀ tye ǀ indra ǀ sakhyeṣu ǀ vahnayaḥ ǀ ṛtam ǀ manvānāḥ ǀ vi ǀ adardiruḥ ǀ valam ǀ
yatra ǀ daśasyan ǀ uṣasaḥ ǀ riṇan ǀ āpaḥ ǀ kutsāya ǀ manman ǀ ahyaḥ ǀ ca ǀ daṃsayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.138.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.26.01
- Maṇḍala · Anuvāka · Ṛk
- 10.11.064
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṅga Aurava
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.