Ṛgveda · Maṇḍala 10 · Sūkta 91
Ṛk 10.91.2
Saṃhitā
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।
जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशं ॥
स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव |
जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशं-विशम् ||
sá darśataśrī́rátithirgṛhégṛhe vánevane śiśriye takvavī́riva ǀ
jánaṃjanam jányo nā́ti manyate víśa ā́ kṣeti viśyó víśaṃviśam ǁ
sa darśataśrīr atithir gṛhe-gṛhe vane-vane śiśriye takvavīr iva |
janaṃ-janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ-viśam ||
Padapāṭha
सः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्रि॒ये॒ । त॒क्व॒वीःऽइ॑व ।
जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥
सः । दर्शतऽश्रीः । अतिथिः । गृहेऽगृहे । वनेऽवने । शिश्रिये । तक्ववीःऽइव ।
जनम्ऽजनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्ऽविशम् ॥
sáḥ ǀ darśata-śrī́ḥ ǀ átithiḥ ǀ gṛhé-gṛhe ǀ váne-vane ǀ śiśriye ǀ takvavī́ḥ-iva ǀ
jánam-janam ǀ jányaḥ ǀ ná ǀ áti ǀ manyate ǀ víśaḥ ǀ ā́ ǀ kṣeti ǀ viśyáḥ ǀ víśam-viśam ǁ
saḥ ǀ darśata-śrīḥ ǀ atithiḥ ǀ gṛhe-gṛhe ǀ vane-vane ǀ śiśriye ǀ takvavīḥ-iva ǀ
janam-janam ǀ janyaḥ ǀ na ǀ ati ǀ manyate ǀ viśaḥ ǀ ā ǀ kṣeti ǀ viśyaḥ ǀ viśam-viśam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.091.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.20.02
- Maṇḍala · Anuvāka · Ṛk
- 10.08.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Aruṇa Vaitahavya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.