Ṛgveda · Maṇḍala 10 · Sūkta 96

Ṛk 10.96.13

Haristutiḥ · Baru Āṅgirasa Or Sarvahari Aindra

The whole sūkta Link

Saṃhitā

अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
म॒म॒द्धि सोमं॒ मधु॑मंतमिंद्र स॒त्रा वृ॑षंज॒ठर॒ आ वृ॑षस्व ॥

अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते |
ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व ||

ápāḥ pū́rveṣām harivaḥ sutā́nāmátho idám sávanam kévalam te ǀ
mamaddhí sómam mádhumantamindra satrā́ vṛṣañjaṭhára ā́ vṛṣasva ǁ

apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te |
mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva ||

Padapāṭha

अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ।
म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥

अपाः । पूर्वेषाम् । हरिऽवः । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ।
ममद्धि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥

ápāḥ ǀ pū́rveṣām ǀ hari-vaḥ ǀ sutā́nām ǀ átho íti ǀ idám ǀ sávanam ǀ kévalam ǀ te ǀ
mamaddhí ǀ sómam ǀ mádhu-mantam ǀ indra ǀ satrā́ ǀ vṛṣan ǀ jaṭháre ǀ ā́ ǀ vṛṣasva ǁ

apāḥ ǀ pūrveṣām ǀ hari-vaḥ ǀ sutānām ǀ atho iti ǀ idam ǀ savanam ǀ kevalam ǀ te ǀ
mamaddhi ǀ somam ǀ madhu-mantam ǀ indra ǀ satrā ǀ vṛṣan ǀ jaṭhare ǀ ā ǀ vṛṣasva ǁ

References

Maṇḍala · Sūkta · Ṛk
10.096.13
Aṣṭaka · Adhyāya · Varga · Ṛk
8.5.07.03
Maṇḍala · Anuvāka · Ṛk
10.08.090
Devatā देवता
Haristutiḥ
Ṛṣi ऋषि
Baru Āṅgirasa Or Sarvahari Aindra
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.96.13

Interpretations

Sāyaṇa

उपोद्घातः

अपाः पुर्वेषामित्येषा षोडशशस्त्रस्य याज्या। सुत्रितम् च। एवा हि शक्रो वशी हि शक्र इति जपित्वापाः पूर्वेषां हरिवः सुतानामिति यजति। आ. ६-२। इति॥

हे इन्द्र सुतानामभिषुतानां पुर्वेषां प्रातःसवनसम्पादितानां। कर्मणि षष्ठ्यावेते। अभिषुतान्प्रातः सवनिकान्सोमानित्यर्थः। तानपाः। अपिबः। हे हरिव इतीन्द्रसम्बोधनं। हरिभ्यामश्वाभ्यां तद्वन्। यद्वा। ऋक्सामात्मकाभ्यां हरिभ्यां युक्त। ऋक्सामे वा इन्द्रस्य हरी। ऐ. ब्रा. २- २४। तै. सं . ६-५-९-२। ताभ्यामेष हरतिति ब्राह्मणम्। अथो अपि चेदं माध्यन्दिनं सवनं केवलं ते तवैवासाधारनम्। माध्यन्दिनं सवनं केवलं ते। ऋ. ४-३५-७। इति हि मन्त्रान्तरम्। तस्मिन्सवने हे इन्द्र मधुमन्तं माधुर्योपेतम् सोमं ममद्धि। पिब। आस्वादयेत्यर्थः। मदिरत्रास्वादनकर्मा। पिबन्तु मदन्तु वियन्त्विति च मन्त्रः। सत्रा वृषन्। सत्राशब्दो भूयिष्ठवचनः। हे भूयिष्ठ वर्शितरिन्द्र जठर आ व्रुषस्व। आसिञ्चस्व॥१३॥