Ṛgveda · Maṇḍala 10 · Sūkta 65
Ṛk 10.65.5
Saṃhitā
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः ।
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः |
ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ ||
mitrā́ya śikṣa váruṇāya dāśúṣe yā́ samrā́jā mánasā ná prayúcchataḥ ǀ
yáyordhā́ma dhármaṇā rócate bṛhádyáyorubhé ródasī nā́dhasī vṛ́tau ǁ
mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ |
yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau ||
Padapāṭha
मि॒त्राय॑ । शि॒क्ष॒ । वरु॑णाय । दा॒शुषे॑ । या । स॒म्ऽराजा॑ । मन॑सा । न । प्र॒ऽयुच्छ॑तः ।
ययोः॑ । धाम॑ । धर्म॑णा । रोच॑ते । बृ॒हत् । ययोः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । नाध॑सी॒ इति॑ । वृतौ॑ ॥
मित्राय । शिक्ष । वरुणाय । दाशुषे । या । सम्ऽराजा । मनसा । न । प्रऽयुच्छतः ।
ययोः । धाम । धर्मणा । रोचते । बृहत् । ययोः । उभे इति । रोदसी इति । नाधसी इति । वृतौ ॥
mitrā́ya ǀ śikṣa ǀ váruṇāya ǀ dāśúṣe ǀ yā́ ǀ sam-rā́jā ǀ mánasā ǀ ná ǀ pra-yúcchataḥ ǀ
yáyoḥ ǀ dhā́ma ǀ dhármaṇā ǀ rócate ǀ bṛhát ǀ yáyoḥ ǀ ubhé íti ǀ ródasī íti ǀ nā́dhasī íti ǀ vṛ́tau ǁ
mitrāya ǀ śikṣa ǀ varuṇāya ǀ dāśuṣe ǀ yā ǀ sam-rājā ǀ manasā ǀ na ǀ pra-yucchataḥ ǀ
yayoḥ ǀ dhāma ǀ dharmaṇā ǀ rocate ǀ bṛhat ǀ yayoḥ ǀ ubhe iti ǀ rodasī iti ǀ nādhasī iti ǀ vṛtau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.065.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.09.05
- Maṇḍala · Anuvāka · Ṛk
- 10.05.077
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasukarṇa Vāsukra
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.