Ṛgveda · Maṇḍala 10 · Sūkta 37
Ṛk 10.37.3
Saṃhitā
न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ ।
प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥
न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि |
प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य ||
ná te ádevaḥ pradívo ní vāsate yádetaśébhiḥ patarái ratharyási ǀ
prācī́namanyádánu vartate rája údanyéna jyótiṣā yāsi sūrya ǁ
na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi |
prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya ||
Padapāṭha
न । ते॒ । अदे॑वः । प्र॒ऽदिवः॑ । नि । वा॒स॒ते॒ । यत् । ए॒त॒शेभिः॑ । प॒त॒रैः । र॒थ॒र्यसि॑ ।
प्रा॒चीन॑म् । अ॒न्यत् । अनु॑ । व॒र्त॒ते॒ । रजः॑ । उत् । अ॒न्येन॑ । ज्योति॑षा । या॒सि॒ । सू॒र्य॒ ॥
न । ते । अदेवः । प्रऽदिवः । नि । वासते । यत् । एतशेभिः । पतरैः । रथर्यसि ।
प्राचीनम् । अन्यत् । अनु । वर्तते । रजः । उत् । अन्येन । ज्योतिषा । यासि । सूर्य ॥
ná ǀ te ǀ ádevaḥ ǀ pra-dívaḥ ǀ ní ǀ vāsate ǀ yát ǀ etaśébhiḥ ǀ pataráiḥ ǀ ratharyási ǀ
prācī́nam ǀ anyát ǀ ánu ǀ vartate ǀ rájaḥ ǀ út ǀ anyéna ǀ jyótiṣā ǀ yāsi ǀ sūrya ǁ
na ǀ te ǀ adevaḥ ǀ pra-divaḥ ǀ ni ǀ vāsate ǀ yat ǀ etaśebhiḥ ǀ pataraiḥ ǀ ratharyasi ǀ
prācīnam ǀ anyat ǀ anu ǀ vartate ǀ rajaḥ ǀ ut ǀ anyena ǀ jyotiṣā ǀ yāsi ǀ sūrya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.037.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.12.03
- Maṇḍala · Anuvāka · Ṛk
- 10.03.089
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Abhitapas Saurya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.