Ṛgveda · Maṇḍala 10 · Sūkta 37
Ṛk 10.37.9
Saṃhitā
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शंते॑ अ॒क्तुभिः॑ ।
अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥
यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः |
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि ||
yásya te víśvā bhúvanāni ketúnā prá cérate ní ca viśánte aktúbhiḥ ǀ
anāgāstvéna harikeśa sūryā́hnāhnā no vásyasāvasyasódihi ǁ
yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ |
anāgāstvena harikeśa sūryāhnāhnā no vasyasā-vasyasod ihi ||
Padapāṭha
यस्य॑ । ते॒ । विश्वा॑ । भुव॑नानि । के॒तुना॑ । प्र । च॒ । ईर॑ते । नि । च॒ । वि॒शन्ते॑ । अ॒क्तुऽभिः॑ ।
अ॒ना॒गाः॒ऽत्वेन॑ । ह॒रि॒ऽके॒श॒ । सू॒र्य॒ । अह्ना॑ऽअह्ना । नः॒ । वस्य॑साऽवस्यसा । उत् । इ॒हि॒ ॥
यस्य । ते । विश्वा । भुवनानि । केतुना । प्र । च । ईरते । नि । च । विशन्ते । अक्तुऽभिः ।
अनागाःऽत्वेन । हरिऽकेश । सूर्य । अह्नाऽअह्ना । नः । वस्यसाऽवस्यसा । उत् । इहि ॥
yásya ǀ te ǀ víśvā ǀ bhúvanāni ǀ ketúnā ǀ prá ǀ ca ǀ ī́rate ǀ ní ǀ ca ǀ viśánte ǀ aktú-bhiḥ ǀ
anāgāḥ-tvéna ǀ hari-keśa ǀ sūrya ǀ áhnā-ahnā ǀ naḥ ǀ vásyasā-vasyasā ǀ út ǀ ihi ǁ
yasya ǀ te ǀ viśvā ǀ bhuvanāni ǀ ketunā ǀ pra ǀ ca ǀ īrate ǀ ni ǀ ca ǀ viśante ǀ aktu-bhiḥ ǀ
anāgāḥ-tvena ǀ hari-keśa ǀ sūrya ǀ ahnā-ahnā ǀ naḥ ǀ vasyasā-vasyasā ǀ ut ǀ ihi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.037.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.13.03
- Maṇḍala · Anuvāka · Ṛk
- 10.03.095
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Abhitapas Saurya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.