Ṛgveda · Maṇḍala 10 · Sūkta 37
Ṛk 10.37.5
Saṃhitā
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।
यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतुं॑ ॥
विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेऌअयन्न् उच्चरसि स्वधा अनु |
यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ||
víśvasya hí préṣito rákṣasi vratámáheḷayannuccárasi svadhā́ ánu ǀ
yádadyá tvā sūryopabrávāmahai tám no devā́ ánu maṃsīrata krátum ǁ
viśvasya hi preṣito rakṣasi vratam aheḷayann uccarasi svadhā anu |
yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum ||
Padapāṭha
विश्व॑स्य । हि । प्रऽइ॑षितः । रक्ष॑सि । व्र॒तम् । अहे॑ळयन् । उ॒त्ऽचर॑सि । स्व॒धाः । अनु॑ ।
यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒ऽब्रवा॑महै । तत् । नः॒ । दे॒वाः । अनु॑ । मं॒सी॒र॒त॒ । क्रतु॑म् ॥
विश्वस्य । हि । प्रऽइषितः । रक्षसि । व्रतम् । अहेळयन् । उत्ऽचरसि । स्वधाः । अनु ।
यत् । अद्य । त्वा । सूर्य । उपऽब्रवामहै । तत् । नः । देवाः । अनु । मंसीरत । क्रतुम् ॥
víśvasya ǀ hí ǀ prá-iṣitaḥ ǀ rákṣasi ǀ vratám ǀ áheḷayan ǀ ut-cárasi ǀ svadhā́ḥ ǀ ánu ǀ
yát ǀ adyá ǀ tvā ǀ sūrya ǀ upa-brávāmahai ǀ tát ǀ naḥ ǀ devā́ḥ ǀ ánu ǀ maṃsīrata ǀ krátum ǁ
viśvasya ǀ hi ǀ pra-iṣitaḥ ǀ rakṣasi ǀ vratam ǀ aheḷayan ǀ ut-carasi ǀ svadhāḥ ǀ anu ǀ
yat ǀ adya ǀ tvā ǀ sūrya ǀ upa-bravāmahai ǀ tat ǀ naḥ ǀ devāḥ ǀ anu ǀ maṃsīrata ǀ kratum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.037.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.12.05
- Maṇḍala · Anuvāka · Ṛk
- 10.03.091
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Abhitapas Saurya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.