Ṛgveda · Maṇḍala 10 · Sūkta 173

Ṛk 10.173.6

Rājñaḥ Stutiḥ · Dhruva Āṇgirasa

The whole sūkta Link

Saṃhitā

ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।
अथो॑ त॒ इंद्रः॒ केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥

ध्रुवं ध्रुवेण हविषाभि सोमम् मृशामसि |
अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत् ||

dhruvám dhruvéṇa havíṣābhí sómam mṛśāmasi ǀ
átho ta índraḥ kévalīrvíśo balihṛ́taskarat ǁ

dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi |
atho ta indraḥ kevalīr viśo balihṛtas karat ||

Padapāṭha

ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ ।
अथो॒ इति॑ । ते॒ । इन्द्रः॑ । केव॑लीः । विशः॑ । ब॒लि॒ऽहृतः॑ । क॒र॒त् ॥

ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृशामसि ।
अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिऽहृतः । करत् ॥

dhruvám ǀ dhruvéṇa ǀ havíṣā ǀ abhí ǀ sómam ǀ mṛśāmasi ǀ
átho íti ǀ te ǀ índraḥ ǀ kévalīḥ ǀ víśaḥ ǀ bali-hṛ́taḥ ǀ karat ǁ

dhruvam ǀ dhruveṇa ǀ haviṣā ǀ abhi ǀ somam ǀ mṛśāmasi ǀ
atho iti ǀ te ǀ indraḥ ǀ kevalīḥ ǀ viśaḥ ǀ bali-hṛtaḥ ǀ karat ǁ

References

Maṇḍala · Sūkta · Ṛk
10.173.06
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.31.06
Maṇḍala · Anuvāka · Ṛk
10.12.108
Devatā देवता
Rājñaḥ Stutiḥ
Ṛṣi ऋषि
Dhruva Āṇgirasa
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.173.6

Interpretations

Sāyaṇa

ध्रुवेण स्थिरेण हविषा पुरोडाशादिना युक्तं ध्रुवं स्थिरं सोममभिमृशामसि। अभिमृशामः। देवतामभिलक्ष्य यागार्थं वयमृत्विजः संस्पृशामः। अथो अथानन्तरमेवेन्द्रो विशः प्रजास्ते तवैव केवलीरसाधारणाः सतीर्बलिहृतः करस्य प्रदात्रीः करत्। करोतु॥६॥