Ṛgveda · Maṇḍala 10 · Sūkta 83
Ṛk 10.83.3
Saṃhitā
अ॒भी॑हि मन्यो त॒वस॒स्तवी॑यां॒तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥
अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् |
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ||
abhī́hi manyo tavásastávīyāntápasā yujā́ ví jahi śátrūn ǀ
amitrahā́ vṛtrahā́ dasyuhā́ ca víśvā vásūnyā́ bharā tvám naḥ ǁ
abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn |
amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ ||
Padapāṭha
अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वसः॑ । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् ।
अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । नः॒ ॥
अभि । इहि । मन्यो इति । तवसः । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् ।
अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । नः ॥
abhí ǀ ihi ǀ manyo íti ǀ tavásaḥ ǀ távīyān ǀ tápasā ǀ yujā́ ǀ ví ǀ jahi ǀ śátrūn ǀ
amitra-hā́ ǀ vṛtra-hā́ ǀ dasyu-hā́ ǀ ca ǀ víśvā ǀ vásūni ǀ ā́ ǀ bhara ǀ tvám ǀ naḥ ǁ
abhi ǀ ihi ǀ manyo iti ǀ tavasaḥ ǀ tavīyān ǀ tapasā ǀ yujā ǀ vi ǀ jahi ǀ śatrūn ǀ
amitra-hā ǀ vṛtra-hā ǀ dasyu-hā ǀ ca ǀ viśvā ǀ vasūni ǀ ā ǀ bhara ǀ tvam ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.083.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.18.03
- Maṇḍala · Anuvāka · Ṛk
- 10.06.124
- Devatā देवता
- Manyu
- Ṛṣi ऋषि
- Manyu Tāpasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.