Ṛgveda · Maṇḍala 10 · Sūkta 80
Ṛk 10.80.6
Saṃhitā
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।
अ॒ग्निर्गांध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥
अग्निं विश ईऌअते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः |
अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता ||
agním víśa īḷate mā́nuṣīryā́ agním mánuṣo náhuṣo ví jātā́ḥ ǀ
agnírgā́ndharvīm pathyā́mṛtásyāgnérgávyūtirghṛtá ā́ níṣattā ǁ
agniṃ viśa īḷate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ |
agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā ||
Padapāṭha
अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । अ॒ग्निम् । मनु॑षः । नहु॑षः । वि । जा॒ताः ।
अ॒ग्निः । गान्ध॑र्वीम् । प॒थ्या॑म् । ऋ॒तस्य॑ । अ॒ग्नेः । गव्यू॑तिः । घृ॒ते । आ । निऽस॑त्ता ॥
अग्निम् । विशः । ईळते । मानुषीः । याः । अग्निम् । मनुषः । नहुषः । वि । जाताः ।
अग्निः । गान्धर्वीम् । पथ्याम् । ऋतस्य । अग्नेः । गव्यूतिः । घृते । आ । निऽसत्ता ॥
agním ǀ víśaḥ ǀ īḷate ǀ mā́nuṣīḥ ǀ yā́ḥ ǀ agním ǀ mánuṣaḥ ǀ náhuṣaḥ ǀ ví ǀ jātā́ḥ ǀ
agníḥ ǀ gā́ndharvīm ǀ pathyā́m ǀ ṛtásya ǀ agnéḥ ǀ gávyūtiḥ ǀ ghṛté ǀ ā́ ǀ ní-sattā ǁ
agnim ǀ viśaḥ ǀ īḷate ǀ mānuṣīḥ ǀ yāḥ ǀ agnim ǀ manuṣaḥ ǀ nahuṣaḥ ǀ vi ǀ jātāḥ ǀ
agniḥ ǀ gāndharvīm ǀ pathyām ǀ ṛtasya ǀ agneḥ ǀ gavyūtiḥ ǀ ghṛte ǀ ā ǀ ni-sattā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.080.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.15.06
- Maṇḍala · Anuvāka · Ṛk
- 10.06.106
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agni Saucīka Or Agni Vaiśvānara
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.