Ṛgveda · Maṇḍala 10 · Sūkta 17
Ṛk 10.17.12
Saṃhitā
यस्ते॑ द्र॒प्सः स्कंद॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतं ॥
यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् |
अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ||
yáste drapsáḥ skándati yáste aṃśúrbāhúcyuto dhiṣáṇāyā upásthāt ǀ
adhvaryórvā pári vā yáḥ pavítrāttám te juhomi mánasā váṣaṭkṛtam ǁ
yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt |
adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam ||
Padapāṭha
यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् ।
अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥
यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् ।
अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥
yáḥ ǀ te ǀ drapsáḥ ǀ skándati ǀ yáḥ ǀ te ǀ aṃśúḥ ǀ bāhú-cyutaḥ ǀ dhiṣáṇāyāḥ ǀ upá-sthāt ǀ
adhvaryóḥ ǀ vā ǀ pári ǀ vā ǀ yáḥ ǀ pavítrāt ǀ tám ǀ te ǀ juhomi ǀ mánasā ǀ váṣaṭ-kṛtam ǁ
yaḥ ǀ te ǀ drapsaḥ ǀ skandati ǀ yaḥ ǀ te ǀ aṃśuḥ ǀ bāhu-cyutaḥ ǀ dhiṣaṇāyāḥ ǀ upa-sthāt ǀ
adhvaryoḥ ǀ vā ǀ pari ǀ vā ǀ yaḥ ǀ pavitrāt ǀ tam ǀ te ǀ juhomi ǀ manasā ǀ vaṣaṭ-kṛtam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.017.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.25.02
- Maṇḍala · Anuvāka · Ṛk
- 10.02.012
- Devatā देवता
- 1: Tvaṣṭṛ, Saraṇyu; 2: Saraṇyu; 3: Agni, Pūṣan; 4: Pūṣan, Savitṛ; 5, 6: Pūṣan; 7-9: Sarasvatī; 10: Apas; 11, 12, 14: Soma; 13: Bṛhaspati, Soma
- Ṛṣi ऋषि
- Devaśravas Yāmāyana
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh Or Purastādbṛhatī, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.