Ṛgveda · Maṇḍala 10 · Sūkta 92

Ṛk 10.92.15

Viśvedevās · Śāryāta Mānava

The whole sūkta Link

Saṃhitā

रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अंगि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रं ।
येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥

रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् |
येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर् वनन्वति ||

rébhadátra janúṣā pū́rvo áṅgirā grā́vāṇa ūrdhvā́ abhí cakṣuradhvarám ǀ
yébhirvíhāyā ábhavadvicakṣaṇáḥ pā́thaḥ sumékam svádhitirvánanvati ǁ

rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram |
yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati ||

Padapāṭha

रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् ।
येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥

रेभत् । अत्र । जनुषा । पूर्वः । अङ्गिराः । ग्रावाणः । ऊर्ध्वाः । अभि । चक्षुः । अध्वरम् ।
येभिः । विऽहायाः । अभवत् । विऽचक्षणः । पाथः । सुऽमेकम् । स्वऽधितिः । वनन्ऽवति ॥

rébhat ǀ átra ǀ janúṣā ǀ pū́rvaḥ ǀ áṅgirāḥ ǀ grā́vāṇaḥ ǀ ūrdhvā́ḥ ǀ abhí ǀ cakṣuḥ ǀ adhvarám ǀ
yébhiḥ ǀ ví-hāyāḥ ǀ ábhavat ǀ vi-cakṣaṇáḥ ǀ pā́thaḥ ǀ su-mékam ǀ svá-dhitiḥ ǀ vánan-vati ǁ

rebhat ǀ atra ǀ januṣā ǀ pūrvaḥ ǀ aṅgirāḥ ǀ grāvāṇaḥ ǀ ūrdhvāḥ ǀ abhi ǀ cakṣuḥ ǀ adhvaram ǀ
yebhiḥ ǀ vi-hāyāḥ ǀ abhavat ǀ vi-cakṣaṇaḥ ǀ pāthaḥ ǀ su-mekam ǀ sva-dhitiḥ ǀ vanan-vati ǁ

References

Maṇḍala · Sūkta · Ṛk
10.092.15
Aṣṭaka · Adhyāya · Varga · Ṛk
8.4.25.05
Maṇḍala · Anuvāka · Ṛk
10.08.030
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Śāryāta Mānava
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.92.15

Interpretations

Sāyaṇa

अङ्गिरा नामर्षिरार्त्विज्येन वृतः स देवान्स्तौति। अत्रास्मिन्यज्ञे जनुषा जन्मना पूर्वः प्रत्नोऽङ्गिरा नामर्षी रेभत्। देवान्स्तौति। ग्रावाणश्चोर्ध्वा उद्यताः सन्तोऽध्वरं यज्ञसाधनं सोममभि चक्षुः। अभिपश्यन्ति। विचक्षणो विद्रष्टेन्द्रो येभिर्यैर्ग्रावभिरभिषवसंबन्धिभिः शब्दैर्विहाया महानभवत्। हृष्टोऽभूदित्यर्थः। आस्येन्द्रस्य स्वधितिर्वज्रो वनन्वत्युदकवति मार्गे पाथोऽन्नसाधनं सुमेकं शोभनमुदकं निरगमयदिति शेषः॥१५॥