Ṛgveda · Maṇḍala 10 · Sūkta 128

Ṛk 10.128.9

Viśvedevās · Vihavya Āṅgirasa

The whole sūkta Link

Saṃhitā

ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वंत्विंद्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥

ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् |
वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ||

yé naḥ sapátnā ápa té bhavantvindrāgníbhyāmáva bādhāmahe tā́n ǀ
vásavo rudrā́ ādityā́ uparispṛ́śam mográm céttāramadhirājámakran ǁ

ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān |
vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran ||

Padapāṭha

ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् ।
वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥

ये । नः । सऽपत्नाः । अप । ते । भवन्तु । इन्द्राग्निऽभ्याम् । अव । बाधामहे । तान् ।
वसवः । रुद्राः । आदित्याः । उपरिऽस्पृशम् । मा । उग्रम् । चेत्तारम् । अधिऽराजम् । अक्रन् ॥

yé ǀ naḥ ǀ sa-pátnāḥ ǀ ápa ǀ té ǀ bhavantu ǀ indrāgní-bhyām ǀ áva ǀ bādhāmahe ǀ tā́n ǀ
vásavaḥ ǀ rudrā́ḥ ǀ ādityā́ḥ ǀ upari-spṛ́śam ǀ mā ǀ ugrám ǀ céttāram ǀ adhi-rājám ǀ akran ǁ

ye ǀ naḥ ǀ sa-patnāḥ ǀ apa ǀ te ǀ bhavantu ǀ indrāgni-bhyām ǀ ava ǀ bādhāmahe ǀ tān ǀ
vasavaḥ ǀ rudrāḥ ǀ ādityāḥ ǀ upari-spṛśam ǀ mā ǀ ugram ǀ cettāram ǀ adhi-rājam ǀ akran ǁ

References

Maṇḍala · Sūkta · Ṛk
10.128.09
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.16.04
Maṇḍala · Anuvāka · Ṛk
10.10.146
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Vihavya Āṅgirasa
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.128.9

Interpretations

Sāyaṇa

नोस्माकं ये सपत्नाः शत्रवस्तेऽप भवन्तु। अपगता भवन्तु। स्वस्थानादपगताः प्रच्युता भवन्तु। तान्सपत्नानिन्द्राग्निभ्यां हविर्भिः स्तुत्या च प्रसन्नाभ्यामनुगृहीता वयमव बाधामहे। निक्रुष्टतरं विनाशयामः। अपि च वसवो रुद्रा आदित्याश्च मा मामुपरिस्पृशमुन्नतपदस्य संस्पष्टारं सर्वेभ्यः श्रेष्ठमक्रन्। कुर्वन्तु। तथोग्रमुद्गूर्णबलं चेत्तारं चेतितारं। छान्दस इडभावः। सर्वस्य ज्ञातारमधिराजं सर्वषामधीश्वरं च मां कुर्वन्तु। करोतेश्छान्दसे लुङि मन्त्रे घसेत्यादिना च्लेर्लुक्॥९॥