Ṛgveda · Maṇḍala 10 · Sūkta 129
Ṛk 10.129.1
Saṃhitā
नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नंभः॒ किमा॑सी॒द्गह॑नं गभी॒रं ॥
नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् |
किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ||
nā́sadāsīnnó sádāsīttadā́nīm nā́sīdrájo nó vyómā paró yát ǀ
kímā́varīvaḥ kúha kásya śármannámbhaḥ kímāsīdgáhanam gabhīrám ǁ
nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat |
kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram ||
Padapāṭha
न । अस॑त् । आ॒सी॒त् । नो इति॑ । सत् । आ॒सी॒त् । त॒दानी॑म् । न । आ॒सी॒त् । रजः॑ । नो इति॑ । विऽओ॑म । प॒रः । यत् ।
किम् । आ । अ॒व॒री॒व॒रिति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अम्भः॑ । किम् । आ॒सी॒त् । गह॑नम् । ग॒भी॒रम् ॥
न । असत् । आसीत् । नो इति । सत् । आसीत् । तदानीम् । न । आसीत् । रजः । नो इति । विऽओम । परः । यत् ।
किम् । आ । अवरीवरिति । कुह । कस्य । शर्मन् । अम्भः । किम् । आसीत् । गहनम् । गभीरम् ॥
ná ǀ ásat ǀ āsīt ǀ nó íti ǀ sát ǀ āsīt ǀ tadā́nīm ǀ ná ǀ āsīt ǀ rájaḥ ǀ nó íti ǀ ví-oma ǀ paráḥ ǀ yát ǀ
kím ǀ ā́ ǀ avarīvaríti ǀ kúha ǀ kásya ǀ śárman ǀ ámbhaḥ ǀ kím ǀ āsīt ǀ gáhanam ǀ gabhīrám ǁ
na ǀ asat ǀ āsīt ǀ no iti ǀ sat ǀ āsīt ǀ tadānīm ǀ na ǀ āsīt ǀ rajaḥ ǀ no iti ǀ vi-oma ǀ paraḥ ǀ yat ǀ
kim ǀ ā ǀ avarīvariti ǀ kuha ǀ kasya ǀ śarman ǀ ambhaḥ ǀ kim ǀ āsīt ǀ gahanam ǀ gabhīram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.129.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.17.01
- Maṇḍala · Anuvāka · Ṛk
- 10.11.001
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Prajāpati Parameṣṭhin
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.