Ṛgveda · Maṇḍala 10 · Sūkta 129
Ṛk 10.129.6
Saṃhitā
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः ।
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥
को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः |
अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ||
kó addhā́ veda ká ihá prá vocatkúta ā́jātā kúta iyám vísṛṣṭiḥ ǀ
arvā́gdevā́ asyá visárjanenā́thā kó veda yáta ābabhū́va ǁ
ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ |
arvāg devā asya visarjanenāthā ko veda yata ābabhūva ||
Padapāṭha
कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । कुतः॑ । आऽजा॑ता । कुतः॑ । इ॒यम् । विऽसृ॑ष्टिः ।
अ॒र्वाक् । दे॒वाः । अ॒स्य । वि॒ऽसर्ज॑नेन । अथ॑ । कः । वे॒द॒ । यतः॑ । आ॒ऽब॒भूव॑ ॥
कः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आऽजाता । कुतः । इयम् । विऽसृष्टिः ।
अर्वाक् । देवाः । अस्य । विऽसर्जनेन । अथ । कः । वेद । यतः । आऽबभूव ॥
káḥ ǀ addhā́ ǀ veda ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ kútaḥ ǀ ā́-jātā ǀ kútaḥ ǀ iyám ǀ ví-sṛṣṭiḥ ǀ
arvā́k ǀ devā́ḥ ǀ asyá ǀ vi-sárjanena ǀ átha ǀ káḥ ǀ veda ǀ yátaḥ ǀ ā-babhū́va ǁ
kaḥ ǀ addhā ǀ veda ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ kutaḥ ǀ ā-jātā ǀ kutaḥ ǀ iyam ǀ vi-sṛṣṭiḥ ǀ
arvāk ǀ devāḥ ǀ asya ǀ vi-sarjanena ǀ atha ǀ kaḥ ǀ veda ǀ yataḥ ǀ ā-babhūva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.129.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.17.06
- Maṇḍala · Anuvāka · Ṛk
- 10.11.006
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Prajāpati Parameṣṭhin
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.