Ṛgveda · Maṇḍala 10 · Sūkta 129
Ṛk 10.129.4
Saṃhitā
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।
स॒तो बंधु॒मस॑ति॒ निर॑विंदन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥
कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् |
सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ||
kā́mastádágre sámavartatā́dhi mánaso rétaḥ prathamám yádā́sīt ǀ
sató bándhumásati níravindanhṛdí pratī́ṣyā kaváyo manīṣā́ ǁ
kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt |
sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā ||
Padapāṭha
कामः॑ । तत् । अग्रे॑ । सम् । अ॒व॒र्त॒त॒ । अधि॑ । मन॑सः । रेतः॑ । प्र॒थ॒मम् । यत् । आसी॑त् ।
स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृ॒दि । प्र॒ति॒ऽइष्य॑ । क॒वयः॑ । म॒नी॒षा ॥
कामः । तत् । अग्रे । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् ।
सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतिऽइष्य । कवयः । मनीषा ॥
kā́maḥ ǀ tát ǀ ágre ǀ sám ǀ avartata ǀ ádhi ǀ mánasaḥ ǀ rétaḥ ǀ prathamám ǀ yát ǀ ā́sīt ǀ
satáḥ ǀ bándhum ǀ ásati ǀ níḥ ǀ avindan ǀ hṛdí ǀ prati-íṣya ǀ kaváyaḥ ǀ manīṣā́ ǁ
kāmaḥ ǀ tat ǀ agre ǀ sam ǀ avartata ǀ adhi ǀ manasaḥ ǀ retaḥ ǀ prathamam ǀ yat ǀ āsīt ǀ
sataḥ ǀ bandhum ǀ asati ǀ niḥ ǀ avindan ǀ hṛdi ǀ prati-iṣya ǀ kavayaḥ ǀ manīṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.129.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.17.04
- Maṇḍala · Anuvāka · Ṛk
- 10.11.004
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Prajāpati Parameṣṭhin
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.