Ṛgveda · Maṇḍala 10 · Sūkta 129

Ṛk 10.129.2

Bhāvavṛttam · Prajāpati Parameṣṭhin

The whole sūkta Link

Saṃhitā

न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः ।
आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥

न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः |
आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ||

ná mṛtyúrāsīdamṛ́tam ná tárhi ná rā́tryā áhna āsītpraketáḥ ǀ
ā́nīdavātám svadháyā tádékam tásmāddhānyánná paráḥ kím canā́sa ǁ

na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ |
ānīd avātaṃ svadhayā tad ekaṃ tasmād dhānyan na paraḥ kiṃ canāsa ||

Padapāṭha

न । मृ॒त्युः । आ॒सी॒त् । अ॒मृत॑म् । न । तर्हि॑ । न । रात्र्याः॑ । अह्नः॑ । आ॒सी॒त् । प्र॒ऽके॒तः ।
आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह॒ । अ॒न्यत् । न । प॒रः । किम् । च॒न । आ॒स॒ ॥

न । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अह्नः । आसीत् । प्रऽकेतः ।
आनीत् । अवातम् । स्वधया । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस ॥

ná ǀ mṛtyúḥ ǀ āsīt ǀ amṛ́tam ǀ ná ǀ tárhi ǀ ná ǀ rā́tryāḥ ǀ áhnaḥ ǀ āsīt ǀ pra-ketáḥ ǀ
ā́nīt ǀ avātám ǀ svadháyā ǀ tát ǀ ékam ǀ tásmāt ǀ ha ǀ anyát ǀ ná ǀ paráḥ ǀ kím ǀ caná ǀ āsa ǁ

na ǀ mṛtyuḥ ǀ āsīt ǀ amṛtam ǀ na ǀ tarhi ǀ na ǀ rātryāḥ ǀ ahnaḥ ǀ āsīt ǀ pra-ketaḥ ǀ
ānīt ǀ avātam ǀ svadhayā ǀ tat ǀ ekam ǀ tasmāt ǀ ha ǀ anyat ǀ na ǀ paraḥ ǀ kim ǀ cana ǀ āsa ǁ

References

Maṇḍala · Sūkta · Ṛk
10.129.02
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.17.02
Maṇḍala · Anuvāka · Ṛk
10.11.002
Devatā देवता
Bhāvavṛttam
Ṛṣi ऋषि
Prajāpati Parameṣṭhin
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.129.2

Interpretations

Sri Aurobindo

Death was not then nor Immortality; there was no knowledge of day nor of night. That was One and lived without the Breath by its own fixity (E.S. nature); there was nothing else beyond It.