Ṛgveda · Maṇḍala 10 · Sūkta 129
Ṛk 10.129.3
Saṃhitā
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दं ।
तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैकं॑ ॥
तम आसीत् तमसा गूऌहम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् |
तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ||
táma āsīttámasā gūḷhámágre’praketám salilám sárvamā idám ǀ
tucchyénābhvápihitam yádā́sīttápasastánmahinā́jāyatáikam ǁ
tama āsīt tamasā gūḷham agre 'praketaṃ salilaṃ sarvam ā idam |
tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam ||
Padapāṭha
तमः॑ । आ॒सी॒त् । तम॑सा । गू॒ळ्हम् । अग्रे॑ । अ॒प्र॒ऽके॒तम् । स॒लि॒लम् । सर्व॑म् । आः॒ । इ॒दम् ।
तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसी॑त् । तप॑सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक॑म् ॥
तमः । आसीत् । तमसा । गूळ्हम् । अग्रे । अप्रऽकेतम् । सलिलम् । सर्वम् । आः । इदम् ।
तुच्छ्येन । आभु । अपिऽहितम् । यत् । आसीत् । तपसः । तत् । महिना । अजायत । एकम् ॥
támaḥ ǀ āsīt ǀ támasā ǀ gūḷhám ǀ ágre ǀ apra-ketám ǀ salilám ǀ sárvam ǀ āḥ ǀ idám ǀ
tucchyéna ǀ ābhú ǀ ápi-hitam ǀ yát ǀ ā́sīt ǀ tápasaḥ ǀ tát ǀ mahinā́ ǀ ajāyata ǀ ékam ǁ
tamaḥ ǀ āsīt ǀ tamasā ǀ gūḷham ǀ agre ǀ apra-ketam ǀ salilam ǀ sarvam ǀ āḥ ǀ idam ǀ
tucchyena ǀ ābhu ǀ api-hitam ǀ yat ǀ āsīt ǀ tapasaḥ ǀ tat ǀ mahinā ǀ ajāyata ǀ ekam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.129.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.17.03
- Maṇḍala · Anuvāka · Ṛk
- 10.11.003
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Prajāpati Parameṣṭhin
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.