Ṛgveda · Maṇḍala 10 · Sūkta 160

Ṛk 10.160.5

Indra · Pūraṇa Vaiśvāmitra

The whole sūkta Link

Saṃhitā

अ॒श्वा॒यंतो॑ ग॒व्यंतो॑ वा॒जयं॑तो॒ हवा॑महे॒ त्वोप॑गंत॒वा उ॑ ।
आ॒भूषं॑तस्ते सुम॒तौ नवा॑यां व॒यमिं॑द्र त्वा शु॒नं हु॑वेम ॥

अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ |
आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ||

aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā́ u ǀ
ābhū́ṣantaste sumatáu návāyām vayámindra tvā śunám huvema ǁ

aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u |
ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema ||

Padapāṭha

अ॒श्व॒ऽयन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ।
आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥

अश्वऽयन्तः । गव्यन्तः । वाजयन्तः । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ।
आऽभूषन्तः । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम ॥

aśva-yántaḥ ǀ gavyántaḥ ǀ vājáyantaḥ ǀ hávāmahe ǀ tvā ǀ úpa-gantavái ǀ ūṃ íti ǀ
ā-bhū́ṣantaḥ ǀ te ǀ su-matáu ǀ návāyām ǀ vayám ǀ indra ǀ tvā ǀ śunám ǀ huvema ǁ

aśva-yantaḥ ǀ gavyantaḥ ǀ vājayantaḥ ǀ havāmahe ǀ tvā ǀ upa-gantavai ǀ ūṃ iti ǀ
ā-bhūṣantaḥ ǀ te ǀ su-matau ǀ navāyām ǀ vayam ǀ indra ǀ tvā ǀ śunam ǀ huvema ǁ

References

Maṇḍala · Sūkta · Ṛk
10.160.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.18.05
Maṇḍala · Anuvāka · Ṛk
10.12.046
Devatā देवता
Indra
Ṛṣi ऋषि
Pūraṇa Vaiśvāmitra
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.160.5

Interpretations

Sāyaṇa

उपोद्घातः

शुनासीरीये पर्वणीन्द्राय शुनासीराय पुरोडाशं द्वादशकपालमित्यस्याश्वायन्त इत्येषा याज्या। इन्द्रो देवा शुन इति वैकल्पिकस्यापि हविष इयमेव याज्या। सूत्रितं च। अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्रम्। आ. २-२०। इति॥

अश्वायन्तोऽश्वानिच्छन्तः। क्यच्यश्वाघस्यात्। पा. ७-४-३७। इत्यात्वम्। गव्यन्तो गा आत्मन इच्छन्तः। वान्तो यि प्रत्यय इत्यवादेशः। वाजयन्तोऽग्नीन्वाजनेन शूर्पादिना प्रज्वलयन्तः। वा गतिगन्धनयोः। णिचि वो विधूनने। पा. ७-३-३८। इति जुगागमः। अस्माच्छतर्यदुपदेशाल्लसार्वधादुकस्वरेणानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे ततो णिच एव स्वरः शिष्यते। अपर आह। वाजमन्नमात्मन इच्छन्त इति। तदानीमवग्रहभवस्वरौ छान्दसौ द्रष्टव्यौ। एवंभूता वयं हे इन्द्र त्वामुपगन्तवा उपगन्तुं प्राप्तुम् हवामहे। आह्वयामहे। गमेस्तुमर्थे सेसेनिति तवैप्रत्ययः। गतिसमासे तवै चान्तश्च युगपदिति गतेः प्रकृतिस्वरत्वमुत्तरपदस्यान्तोदात्तत्वम्। उ इति पूरकः। हे इन्द्र ते तव नवायामभिन्वायां प्रशस्तायां सुमतौ शोभनबुद्धावाभूषन्त आ समन्ताद्भवन्तो वर्तमानाः। यद्वा। आ समन्ताद्भूषयन्तोऽलङ्कुर्वन्तस्तवानुग्रहबुद्धौ वर्तमाना वयं शुनं सुखकरं त्वां हुवेम। आह्वयेम॥५॥