Ṛgveda · Maṇḍala 10 · Sūkta 102
Ṛk 10.102.11
Saṃhitā
प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सिं॒चन् ।
ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुमं॒गलं॒ सिन॑वदस्तु सा॒तं ॥
परिवृक्तेव पतिविद्यम् आनट् पीप्याना कूचक्रेणेव सिञ्चन् |
एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवद् अस्तु सातम् ||
parivṛktéva pativídyamānaṭ pī́pyānā kū́cakreṇeva siñcán ǀ
eṣaiṣyā́ cidrathyā́ jayema sumaṅgálam sínavadastu sātám ǁ
parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan |
eṣaiṣyā cid rathyā jayema sumaṅgalaṃ sinavad astu sātam ||
Padapāṭha
प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् ।
ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥
परिवृक्ताऽइव । पतिऽविद्यम् । आनट् । पीप्याना । कूचक्रेणऽइव । सिञ्चन् ।
एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥
parivṛktā́-iva ǀ pati-vídyam ǀ ānaṭ ǀ pī́pyānā ǀ kū́cakreṇa-iva ǀ siñcán ǀ
eṣa-eṣyā́ ǀ cit ǀ rathyā́ ǀ jayema ǀ su-maṅgálam ǀ sína-vat ǀ astu ǀ sātám ǁ
parivṛktā-iva ǀ pati-vidyam ǀ ānaṭ ǀ pīpyānā ǀ kūcakreṇa-iva ǀ siñcan ǀ
eṣa-eṣyā ǀ cit ǀ rathyā ǀ jayema ǀ su-maṅgalam ǀ sina-vat ǀ astu ǀ sātam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.102.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.21.05
- Maṇḍala · Anuvāka · Ṛk
- 10.09.035
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Mudgala Bhārmyaśva
- Chandas छन्दस्
- Triṣṭubh, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.