Ṛgveda · Maṇḍala 10 · Sūkta 165

Ṛk 10.165.5

Viśvedevās · Kapota Nairṛta

The whole sūkta Link

Saṃhitā

ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मदं॑तः॒ परि॒ गां न॑यध्वं ।
सं॒यो॒पयं॑तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥

ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां नयध्वम् |
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः ||

ṛcā́ kapótam nudata praṇódamíṣam mádantaḥ pári gā́m nayadhvam ǀ
saṃyopáyanto duritā́ni víśvā hitvā́ na ū́rjam prá patātpátiṣṭhaḥ ǁ

ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam |
saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ ||

Padapāṭha

ऋ॒चा । क॒पोत॑म् । नु॒द॒त॒ । प्र॒ऽनोद॑म् । इष॑म् । मद॑न्तः । परि॑ । गाम् । न॒य॒ध्व॒म् ।
स॒म्ऽयो॒पय॑न्तः । दुः॒ऽइ॒तानि॑ । विश्वा॑ । हि॒त्वा । नः॒ । ऊर्ज॑म् । प्र । प॒ता॒त् । पति॑ष्ठः ॥

ऋचा । कपोतम् । नुदत । प्रऽनोदम् । इषम् । मदन्तः । परि । गाम् । नयध्वम् ।
सम्ऽयोपयन्तः । दुःऽइतानि । विश्वा । हित्वा । नः । ऊर्जम् । प्र । पतात् । पतिष्ठः ॥

ṛcā́ ǀ kapótam ǀ nudata ǀ pra-nódam ǀ íṣam ǀ mádantaḥ ǀ pári ǀ gā́m ǀ nayadhvam ǀ
sam-yopáyantaḥ ǀ duḥ-itā́ni ǀ víśvā ǀ hitvā́ ǀ naḥ ǀ ū́rjam ǀ prá ǀ patāt ǀ pátiṣṭhaḥ ǁ

ṛcā ǀ kapotam ǀ nudata ǀ pra-nodam ǀ iṣam ǀ madantaḥ ǀ pari ǀ gām ǀ nayadhvam ǀ
sam-yopayantaḥ ǀ duḥ-itāni ǀ viśvā ǀ hitvā ǀ naḥ ǀ ūrjam ǀ pra ǀ patāt ǀ patiṣṭhaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.165.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.23.05
Maṇḍala · Anuvāka · Ṛk
10.12.073
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Kapota Nairṛta
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.165.5

Interpretations

Sāyaṇa

हे देवाः ऋचा मन्त्रेण स्तूयमानाः सन्तो यूयं प्रणोदं प्रकर्षेन नोदनीयं बहिष्कर्तव्यम् कपोतम् पक्षिणम् नुदत। अस्माद्गृहात्प्रेरयत। निर्गमयत। तथा मदन्तोऽस्माभिर्दत्तैर्हविर्भिर्माद्यन्त इषमन्नं गां च परिणयध्वम्। परितोऽस्मभ्यं पापयत। किं कुर्वन्तः। विश्वा सर्वाणि दुरितानि कपोतोपहतिजन्यानि दोषजातानि संयोपयन्तोऽद्रुश्यानि कुर्वन्तः। अपि च पतिष्ठोऽतिशयेन पतिता शीघ्रोत्पातकः कपोतो नोऽस्माकमूर्जमन्नं हित्वा परित्यज्य प्र पतात्। प्रकर्षेन पततु। पक्शाभ्यामुत्पततु॥५॥