Ṛgveda · Maṇḍala 10 · Sūkta 165
Ṛk 10.165.1
Saṃhitā
देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छंदू॒तो निर्ऋ॑त्या इ॒दमा॑ज॒गाम॑ ।
तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥
देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम |
तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ||
dévāḥ kapóta iṣitó yádicchándūtó nírṛtyā idámājagā́ma ǀ
tásmā arcāma kṛṇávāma níṣkṛtim śám no astu dvipáde śám cátuṣpade ǁ
devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma |
tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade ||
Padapāṭha
देवाः॑ । क॒पोतः॑ । इ॒षि॒तः । यत् । इ॒च्छन् । दू॒तः । निःऽऋ॑त्याः । इ॒दम् । आ॒ऽज॒गाम॑ ।
तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । निःऽकृ॑तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥
देवाः । कपोतः । इषितः । यत् । इच्छन् । दूतः । निःऽऋत्याः । इदम् । आऽजगाम ।
तस्मै । अर्चाम । कृणवाम । निःऽकृतिम् । शम् । नः । अस्तु । द्विऽपदे । शम् । चतुःऽपदे ॥
dévāḥ ǀ kapótaḥ ǀ iṣitáḥ ǀ yát ǀ icchán ǀ dūtáḥ ǀ níḥ-ṛtyāḥ ǀ idám ǀ ā-jagā́ma ǀ
tásmai ǀ arcāma ǀ kṛṇávāma ǀ níḥ-kṛtim ǀ śám ǀ naḥ ǀ astu ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁ
devāḥ ǀ kapotaḥ ǀ iṣitaḥ ǀ yat ǀ icchan ǀ dūtaḥ ǀ niḥ-ṛtyāḥ ǀ idam ǀ ā-jagāma ǀ
tasmai ǀ arcāma ǀ kṛṇavāma ǀ niḥ-kṛtim ǀ śam ǀ naḥ ǀ astu ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.165.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.23.01
- Maṇḍala · Anuvāka · Ṛk
- 10.12.069
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kapota Nairṛta
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.