Ṛgveda · Maṇḍala 10 · Sūkta 165
Ṛk 10.165.4
Saṃhitā
यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ।
यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति |
यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे ||
yádúlūko vádati moghámetádyátkapótaḥ padámagnáu kṛṇóti ǀ
yásya dūtáḥ práhita eṣá etáttásmai yamā́ya námo astu mṛtyáve ǁ
yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti |
yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave ||
Padapāṭha
यत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः॑ । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ ।
यस्य॑ । दू॒तः । प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नमः॑ । अ॒स्तु॒ । मृ॒त्यवे॑ ॥
यत् । उलूकः । वदति । मोघम् । एतत् । यत् । कपोतः । पदम् । अग्नौ । कृणोति ।
यस्य । दूतः । प्रऽहितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥
yát ǀ úlūkaḥ ǀ vádati ǀ moghám ǀ etát ǀ yát ǀ kapótaḥ ǀ padám ǀ agnáu ǀ kṛṇóti ǀ
yásya ǀ dūtáḥ ǀ prá-hitaḥ ǀ eṣáḥ ǀ etát ǀ tásmai ǀ yamā́ya ǀ námaḥ ǀ astu ǀ mṛtyáve ǁ
yat ǀ ulūkaḥ ǀ vadati ǀ mogham ǀ etat ǀ yat ǀ kapotaḥ ǀ padam ǀ agnau ǀ kṛṇoti ǀ
yasya ǀ dūtaḥ ǀ pra-hitaḥ ǀ eṣaḥ ǀ etat ǀ tasmai ǀ yamāya ǀ namaḥ ǀ astu ǀ mṛtyave ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.165.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.23.04
- Maṇḍala · Anuvāka · Ṛk
- 10.12.072
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kapota Nairṛta
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.