Ṛgveda · Maṇḍala 10 · Sūkta 112

Ṛk 10.112.10

Indra · Nabhaḥprabhedana Vairūpa

The whole sūkta Link

Saṃhitā

अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नां ।
रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥

अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् |
रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान् ||

abhikhyā́ no maghavannā́dhamānāntsákhe bodhí vasupate sákhīnām ǀ
ráṇam kṛdhi raṇakṛtsatyaśuṣmā́bhakte cidā́ bhajā rāyé asmā́n ǁ

abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām |
raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān ||

Padapāṭha

अ॒भि॒ऽख्या । नः॒ । म॒घ॒ऽव॒न् । नाध॑मानान् । सखे॑ । बो॒धि । व॒सु॒ऽप॒ते॒ । सखी॑नाम् ।
रण॑म् । कृ॒धि॒ । र॒ण॒ऽकृ॒त् । स॒त्य॒ऽशु॒ष्म॒ । अभ॑क्ते । चि॒त् । आ । भ॒ज॒ । रा॒ये । अ॒स्मान् ॥

अभिऽख्या । नः । मघऽवन् । नाधमानान् । सखे । बोधि । वसुऽपते । सखीनाम् ।
रणम् । कृधि । रणऽकृत् । सत्यऽशुष्म । अभक्ते । चित् । आ । भज । राये । अस्मान् ॥

abhi-khyā́ ǀ naḥ ǀ magha-van ǀ nā́dhamānān ǀ sákhe ǀ bodhí ǀ vasu-pate ǀ sákhīnām ǀ
ráṇam ǀ kṛdhi ǀ raṇa-kṛt ǀ satya-śuṣma ǀ ábhakte ǀ cit ǀ ā́ ǀ bhaja ǀ rāyé ǀ asmā́n ǁ

abhi-khyā ǀ naḥ ǀ magha-van ǀ nādhamānān ǀ sakhe ǀ bodhi ǀ vasu-pate ǀ sakhīnām ǀ
raṇam ǀ kṛdhi ǀ raṇa-kṛt ǀ satya-śuṣma ǀ abhakte ǀ cit ǀ ā ǀ bhaja ǀ rāye ǀ asmān ǁ

References

Maṇḍala · Sūkta · Ṛk
10.112.10
Aṣṭaka · Adhyāya · Varga · Ṛk
8.6.13.05
Maṇḍala · Anuvāka · Ṛk
10.09.142
Devatā देवता
Indra
Ṛṣi ऋषि
Nabhaḥprabhedana Vairūpa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.112.10

Interpretations

Sāyaṇa

हे मघवन्धनवन्निन्द्र नाधमानान्। नाधृ नाथृ याज्ञोपतापैश्वर्याशीःषु भौवादिकः। अनुदात्तेत्। याचमानान्नोऽस्मानभिख्याभिख्यापनेन तेजसा युक्तान् कुरु। प्रसिद्धान्वा कुरु। हे सखे धनदानेन हे वसुपते वसूनां स्वामिन् त्वं सखीणां सोत्तृत्वेन सखिभूतानामस्माकं स्वभुतानि स्तोत्राणि बोधि। बुध्यस्व। बुध अवगमने। भौवादिकः। लोटि च्छान्दसः शपो लुक्। छन्दस्युभयथेति हेरार्धधातुकत्वेनाङित्वादङितश्चेति हेर्धिभावः। अत एव गुणह्। सार्वधातुकत्वेन ङित्त्वादन्तोदात्तत्वम्। वर्णलोपश्छान्दसः। हे रणकृच्छत्रुभिः सह युद्ध कर्तः अत एव हे सत्यशुष्म यथार्थबलोपेत त्वं रनं कृधि। कुरु। शत्रूञ्जहि। करोतेर्लोटि श्रुशृनुपॄकृवृभ्यश्छन्दसीति हेर्धिः। किञ्चाभक्ते चिदसम्भजनीये स्थानेऽप्यस्मान्राये धनाया भजा। भागिनं कुरु। द्व्यचोतस्तिङ् इति संहितायां दीर्घः॥१०॥