Ṛgveda · Maṇḍala 10 · Sūkta 112
Ṛk 10.112.4
Saṃhitā
यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्तां ।
तदोक॒ आ हरि॑भिरिंद्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥
यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् |
तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ ||
yásya tyátte mahimā́nam mádeṣvimé mahī́ ródasī nā́viviktām ǀ
tádóka ā́ háribhirindra yuktáiḥ priyébhiryāhi priyámánnamáccha ǁ
yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām |
tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha ||
Padapāṭha
यस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् ।
तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥
यस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् ।
तत् । ओकः । आ । हरिऽभिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्रियम् । अन्नम् । अच्छ ॥
yásya ǀ tyát ǀ te ǀ mahimā́nam ǀ mádeṣu ǀ imé íti ǀ mahī́ íti ǀ ródasī íti ǀ ná ǀ áviviktām ǀ
tát ǀ ókaḥ ǀ ā́ ǀ hári-bhiḥ ǀ indra ǀ yuktáiḥ ǀ priyébhiḥ ǀ yāhi ǀ priyám ǀ ánnam ǀ áccha ǁ
yasya ǀ tyat ǀ te ǀ mahimānam ǀ madeṣu ǀ ime iti ǀ mahī iti ǀ rodasī iti ǀ na ǀ aviviktām ǀ
tat ǀ okaḥ ǀ ā ǀ hari-bhiḥ ǀ indra ǀ yuktaiḥ ǀ priyebhiḥ ǀ yāhi ǀ priyam ǀ annam ǀ accha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.112.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.12.04
- Maṇḍala · Anuvāka · Ṛk
- 10.09.136
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nabhaḥprabhedana Vairūpa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.