Ṛgveda · Maṇḍala 10 · Sūkta 112
Ṛk 10.112.5
Saṃhitā
यस्य॒ शश्व॑त्पपि॒वाँ इं॑द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इं॑द्र॒ सोमः॑ ॥
यस्य शश्वत् पपिवां इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ |
स ते पुरन्धिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः ||
yásya śáśvatpapivā́m̐ indra śátrūnanānukṛtyā́ ráṇyā cakártha ǀ
sá te púraṃdhim táviṣīmiyarti sá te mádāya sutá indra sómaḥ ǁ
yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha |
sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ ||
Padapāṭha
यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ ।
सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥
यस्य । शश्वत् । पपिऽवान् । इन्द्र । शत्रून् । अननुऽकृत्या । रण्या । चकर्थ ।
सः । ते । पुरम्ऽधिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः ॥
yásya ǀ śáśvat ǀ papi-vā́n ǀ indra ǀ śátrūn ǀ ananu-kṛtyā́ ǀ ráṇyā ǀ cakártha ǀ
sáḥ ǀ te ǀ púram-dhim ǀ táviṣīm ǀ iyarti ǀ sáḥ ǀ te ǀ mádāya ǀ sutáḥ ǀ indra ǀ sómaḥ ǁ
yasya ǀ śaśvat ǀ papi-vān ǀ indra ǀ śatrūn ǀ ananu-kṛtyā ǀ raṇyā ǀ cakartha ǀ
saḥ ǀ te ǀ puram-dhim ǀ taviṣīm ǀ iyarti ǀ saḥ ǀ te ǀ madāya ǀ sutaḥ ǀ indra ǀ somaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.112.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.12.05
- Maṇḍala · Anuvāka · Ṛk
- 10.09.137
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nabhaḥprabhedana Vairūpa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.