Ṛgveda · Maṇḍala 10 · Sūkta 112
Ṛk 10.112.9
Saṃhitā
नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नां ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥
नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं कवीनाम् |
न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च ||
ní ṣú sīda gaṇapate gaṇéṣu tvā́māhurvípratamam kavīnā́m ǀ
ná ṛté tvátkriyate kím canā́ré mahā́markám maghavañcitrámarca ǁ
ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām |
na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca ||
Padapāṭha
नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् ।
न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥
नि । सु । सीद । गणऽपते । गणेषु । त्वाम् । आहुः । विप्रऽतमम् । कवीनाम् ।
न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघऽवन् । चित्रम् । अर्च ॥
ní ǀ sú ǀ sīda ǀ gaṇa-pate ǀ gaṇéṣu ǀ tvā́m ǀ āhuḥ ǀ vípra-tamam ǀ kavīnā́m ǀ
ná ǀ ṛté ǀ tvát ǀ kriyate ǀ kím ǀ caná ǀ āré ǀ mahā́m ǀ arkám ǀ magha-van ǀ citrám ǀ arca ǁ
ni ǀ su ǀ sīda ǀ gaṇa-pate ǀ gaṇeṣu ǀ tvām ǀ āhuḥ ǀ vipra-tamam ǀ kavīnām ǀ
na ǀ ṛte ǀ tvat ǀ kriyate ǀ kim ǀ cana ǀ āre ǀ mahām ǀ arkam ǀ magha-van ǀ citram ǀ arca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.112.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.13.04
- Maṇḍala · Anuvāka · Ṛk
- 10.09.141
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nabhaḥprabhedana Vairūpa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.