Ṛgveda · Maṇḍala 10 · Sūkta 64
Ṛk 10.64.16
Saṃhitā
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥
एवा कविस् तुवीरवां ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः |
उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म ||
evā́ kavístuvīrávām̐ ṛtajñā́ draviṇasyúrdráviṇasaścakānáḥ ǀ
ukthébhirátra matíbhiśca vípró’pīpayadgáyo divyā́ni jánma ǁ
evā kavis tuvīravāṃ ṛtajñā draviṇasyur draviṇasaś cakānaḥ |
ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma ||
Padapāṭha
ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः ।
उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥
एव । कविः । तुविऽरवान् । ऋतऽज्ञाः । द्रविणस्युः । द्रविणसः । चकानः ।
उक्थेभिः । अत्र । मतिऽभिः । च । विप्रः । अपीपयत् । गयः । दिव्यानि । जन्म ॥
evá ǀ kavíḥ ǀ tuvi-rávān ǀ ṛta-jñā́ḥ ǀ draviṇasyúḥ ǀ dráviṇasaḥ ǀ cakānáḥ ǀ
ukthébhiḥ ǀ átra ǀ matí-bhiḥ ǀ ca ǀ vípraḥ ǀ ápīpayat ǀ gáyaḥ ǀ divyā́ni ǀ jánma ǁ
eva ǀ kaviḥ ǀ tuvi-ravān ǀ ṛta-jñāḥ ǀ draviṇasyuḥ ǀ draviṇasaḥ ǀ cakānaḥ ǀ
ukthebhiḥ ǀ atra ǀ mati-bhiḥ ǀ ca ǀ vipraḥ ǀ apīpayat ǀ gayaḥ ǀ divyāni ǀ janma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.064.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.08.06
- Maṇḍala · Anuvāka · Ṛk
- 10.05.071
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Gaya Plāta
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.