Ṛgveda · Maṇḍala 10 · Sūkta 154

Ṛk 10.154.5

Bhāvavṛttam · Yamī Vaivasvatī

The whole sūkta Link

Saṃhitā

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यंति॒ सूर्यं॑ ।
ऋषीं॒तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥

सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् |
ऋषीन् तपस्वतो यम तपोजां अपि गच्छतात् ||

sahásraṇīthāḥ kaváyo yé gopāyánti sū́ryam ǀ
ṛ́ṣīntápasvato yama tapojā́m̐ ápi gacchatāt ǁ

sahasraṇīthāḥ kavayo ye gopāyanti sūryam |
ṛṣīn tapasvato yama tapojāṃ api gacchatāt ||

Padapāṭha

स॒हस्र॑ऽनीथाः । क॒वयः॑ । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् ।
ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒पः॒ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥

सहस्रऽनीथाः । कवयः । ये । गोपायन्ति । सूर्यम् ।
ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥

sahásra-nīthāḥ ǀ kaváyaḥ ǀ yé ǀ gopāyánti ǀ sū́ryam ǀ
ṛ́ṣīn ǀ tápasvataḥ ǀ yama ǀ tapaḥ-jā́n ǀ ápi ǀ gacchatāt ǁ

sahasra-nīthāḥ ǀ kavayaḥ ǀ ye ǀ gopāyanti ǀ sūryam ǀ
ṛṣīn ǀ tapasvataḥ ǀ yama ǀ tapaḥ-jān ǀ api ǀ gacchatāt ǁ

References

Maṇḍala · Sūkta · Ṛk
10.154.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.12.05
Maṇḍala · Anuvāka · Ṛk
10.12.015
Devatā देवता
Bhāvavṛttam
Ṛṣi ऋषि
Yamī Vaivasvatī
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.154.5

Interpretations

Sāyaṇa

सहस्रनीथाह् सहस्रनयनाः कवयः क्रान्तदर्शिनो य सूर्यममुमादित्यं गोपायन्ति रक्षन्ति तपस्वतपसा युक्तांस्तपोजांस्तपसः सकाशादेवोत्पन्नां स्तानृषीन् हे यम नियत त्वमपिगच्छा॥५॥