Ṛgveda · Maṇḍala 10 · Sūkta 103
Ṛk 10.103.11
Saṃhitā
अ॒स्माक॒मिंद्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यंतु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवंत्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु |
अस्माकं वीरा उत्तरे भवन्त्व् अस्मां उ देवा अवता हवेषु ||
asmā́kamíndraḥ sámṛteṣu dhvajéṣvasmā́kam yā́ íṣavastā́ jayantu ǀ
asmā́kam vīrā́ úttare bhavantvasmā́m̐ u devā avatā háveṣu ǁ
asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu |
asmākaṃ vīrā uttare bhavantv asmāṃ u devā avatā haveṣu ||
Padapāṭha
अ॒स्माक॑म् । इन्द्रः॑ । सम्ऽऋ॑तेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । याः । इष॑वः । ताः । ज॒य॒न्तु॒ ।
अ॒स्माक॑म् । वी॒राः । उत्ऽत॑रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊं॒ इति॑ । दे॒वाः॒ । अ॒व॒त॒ । हवे॑षु ॥
अस्माकम् । इन्द्रः । सम्ऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु ।
अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । ऊं इति । देवाः । अवत । हवेषु ॥
asmā́kam ǀ índraḥ ǀ sám-ṛteṣu ǀ dhvajéṣu ǀ asmā́kam ǀ yā́ḥ ǀ íṣavaḥ ǀ tā́ḥ ǀ jayantu ǀ
asmā́kam ǀ vīrā́ḥ ǀ út-tare ǀ bhavantu ǀ asmā́n ǀ ūṃ íti ǀ devāḥ ǀ avata ǀ háveṣu ǁ
asmākam ǀ indraḥ ǀ sam-ṛteṣu ǀ dhvajeṣu ǀ asmākam ǀ yāḥ ǀ iṣavaḥ ǀ tāḥ ǀ jayantu ǀ
asmākam ǀ vīrāḥ ǀ ut-tare ǀ bhavantu ǀ asmān ǀ ūṃ iti ǀ devāḥ ǀ avata ǀ haveṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.103.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.23.05
- Maṇḍala · Anuvāka · Ṛk
- 10.09.047
- Devatā देवता
- 1-3, 5-11: Indra; 4: Bṛhaspati; 12: Apvā; 13: Indra, Maruts
- Ṛṣi ऋषि
- Apratiratha Aindra
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.