Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.11
Saṃhitā
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हंति॑ ।
तम॒र्चिषा॑ स्फू॒र्जयं॑जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥
त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति |
तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि ||
tríryātudhā́naḥ prásitim ta etvṛtám yó agne ánṛtena hánti ǀ
támarcíṣā sphūrjáyañjātavedaḥ samakṣámenam gṛṇaté ní vṛṅdhi ǁ
trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti |
tam arciṣā sphūrjayañ jātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi ||
Padapāṭha
त्रिः । या॒तु॒ऽधानः॑ । प्रऽसि॑तिम् । ते॒ । ए॒तु॒ । ऋ॒तम् । यः । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ ।
तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवे॒दः॒ । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । वृ॒ङ्धि॒ ॥
त्रिः । यातुऽधानः । प्रऽसितिम् । ते । एतु । ऋतम् । यः । अग्ने । अनृतेन । हन्ति ।
तम् । अर्चिषा । स्फूर्जयन् । जातऽवेदः । सम्ऽअक्षम् । एनम् । गृणते । नि । वृङ्धि ॥
tríḥ ǀ yātu-dhā́naḥ ǀ prá-sitim ǀ te ǀ etu ǀ ṛtám ǀ yáḥ ǀ agne ǀ ánṛtena ǀ hánti ǀ
tám ǀ arcíṣā ǀ sphūrjáyan ǀ jāta-vedaḥ ǀ sam-akṣám ǀ enam ǀ gṛṇaté ǀ ní ǀ vṛṅdhi ǁ
triḥ ǀ yātu-dhānaḥ ǀ pra-sitim ǀ te ǀ etu ǀ ṛtam ǀ yaḥ ǀ agne ǀ anṛtena ǀ hanti ǀ
tam ǀ arciṣā ǀ sphūrjayan ǀ jāta-vedaḥ ǀ sam-akṣam ǀ enam ǀ gṛṇate ǀ ni ǀ vṛṅdhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.07.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.081
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.