Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.21
Saṃhitā
प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।
सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥
पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् |
सखे सखायम् अजरो जरिम्णे ऽग्ने मर्तां अमर्त्यस् त्वं नः ||
paścā́tpurástādadharā́dúdaktātkavíḥ kā́vyena pári pāhi rājan ǀ
sákhe sákhāyamajáro jarimṇé’gne mártām̐ ámartyastvám naḥ ǁ
paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan |
sakhe sakhāyam ajaro jarimṇe 'gne martāṃ amartyas tvaṃ naḥ ||
Padapāṭha
प॒श्चात् । पु॒रस्ता॑त् । अ॒ध॒रात् । उद॑क्तात् । क॒विः । काव्ये॑न । परि॑ । पा॒हि॒ । रा॒ज॒न् ।
सखे॑ । सखा॑यम् । अ॒जरः॑ । ज॒रि॒म्णे । अग्ने॑ । मर्ता॑न् । अम॑र्त्यः । त्वम् । नः॒ ॥
पश्चात् । पुरस्तात् । अधरात् । उदक्तात् । कविः । काव्येन । परि । पाहि । राजन् ।
सखे । सखायम् । अजरः । जरिम्णे । अग्ने । मर्तान् । अमर्त्यः । त्वम् । नः ॥
paścā́t ǀ purástāt ǀ adharā́t ǀ údaktāt ǀ kavíḥ ǀ kā́vyena ǀ pári ǀ pāhi ǀ rājan ǀ
sákhe ǀ sákhāyam ǀ ajáraḥ ǀ jarimṇé ǀ ágne ǀ mártān ǀ ámartyaḥ ǀ tvám ǀ naḥ ǁ
paścāt ǀ purastāt ǀ adharāt ǀ udaktāt ǀ kaviḥ ǀ kāvyena ǀ pari ǀ pāhi ǀ rājan ǀ
sakhe ǀ sakhāyam ǀ ajaraḥ ǀ jarimṇe ǀ agne ǀ martān ǀ amartyaḥ ǀ tvam ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.21
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.09.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.091
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.