Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.6
Saṃhitā
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठं॑तमग्न उ॒त वा॒ चरं॑तं ।
यद्वां॒तरि॑क्षे प॒थिभिः॒ पतं॑तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् |
यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा शिशानः ||
yátredā́nīm páśyasi jātavedastíṣṭhantamagna utá vā cárantam ǀ
yádvāntárikṣe pathíbhiḥ pátantam támástā vidhya śárvā śíśānaḥ ǁ
yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam |
yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ ||
Padapāṭha
यत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒दः॒ । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् ।
यत् । वा॒ । अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । पत॑न्तम् । तम् । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑नः ॥
यत्र । इदानीम् । पश्यसि । जातऽवेदः । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् ।
यत् । वा । अन्तरिक्षे । पथिऽभिः । पतन्तम् । तम् । अस्ता । विध्य । शर्वा । शिशानः ॥
yátra ǀ idā́nīm ǀ páśyasi ǀ jāta-vedaḥ ǀ tíṣṭhantam ǀ agne ǀ utá ǀ vā ǀ cárantam ǀ
yát ǀ vā ǀ antárikṣe ǀ pathí-bhiḥ ǀ pátantam ǀ tám ǀ ástā ǀ vidhya ǀ śárvā ǀ śíśānaḥ ǁ
yatra ǀ idānīm ǀ paśyasi ǀ jāta-vedaḥ ǀ tiṣṭhantam ǀ agne ǀ uta ǀ vā ǀ carantam ǀ
yat ǀ vā ǀ antarikṣe ǀ pathi-bhiḥ ǀ patantam ǀ tam ǀ astā ǀ vidhya ǀ śarvā ǀ śiśānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.06.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.076
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.