Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.1
Saṃhitā
र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।
शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥
रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म |
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ||
rakṣoháṇam vājínamā́ jigharmi mitrám práthiṣṭhamúpa yāmi śárma ǀ
śíśāno agníḥ krátubhiḥ sámiddhaḥ sá no dívā sá riṣáḥ pātu náktam ǁ
rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma |
śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||
Padapāṭha
र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ ।
शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥
रक्षःऽहनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म ।
शिशानः । अग्निः । क्रतुऽभिः । सम्ऽइद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥
rakṣaḥ-hánam ǀ vājínam ǀ ā́ ǀ jigharmi ǀ mitrám ǀ práthiṣṭham ǀ úpa ǀ yāmi ǀ śárma ǀ
śíśānaḥ ǀ agníḥ ǀ krátu-bhiḥ ǀ sám-iddhaḥ ǀ sáḥ ǀ naḥ ǀ dívā ǀ sáḥ ǀ riṣáḥ ǀ pātu ǀ náktam ǁ
rakṣaḥ-hanam ǀ vājinam ǀ ā ǀ jigharmi ǀ mitram ǀ prathiṣṭham ǀ upa ǀ yāmi ǀ śarma ǀ
śiśānaḥ ǀ agniḥ ǀ kratu-bhiḥ ǀ sam-iddhaḥ ǀ saḥ ǀ naḥ ǀ divā ǀ saḥ ǀ riṣaḥ ǀ pātu ǀ naktam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.05.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.071
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.