Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.16
Saṃhitā
यः पौरु॑षेयेण क्र॒विषा॑ समं॒क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ ।
यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः |
यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ||
yáḥ páuruṣeyeṇa kravíṣā samaṅkté yó áśvyena paśúnā yātudhā́naḥ ǀ
yó aghnyā́yā bhárati kṣīrámagne téṣām śīrṣā́ṇi hárasā́pi vṛśca ǁ
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ |
yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca ||
Padapāṭha
यः । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । यः । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधानः॑ ।
यः । अ॒घ्न्यायाः॑ । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥
यः । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । यः । अश्व्येन । पशुना । यातुऽधानः ।
यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥
yáḥ ǀ páuruṣeyeṇa ǀ kravíṣā ǀ sam-aṅkté ǀ yáḥ ǀ áśvyena ǀ paśúnā ǀ yātu-dhā́naḥ ǀ
yáḥ ǀ aghnyā́yāḥ ǀ bhárati ǀ kṣīrám ǀ agne ǀ téṣām ǀ śīrṣā́ṇi ǀ hárasā ǀ ápi ǀ vṛśca ǁ
yaḥ ǀ pauruṣeyeṇa ǀ kraviṣā ǀ sam-aṅkte ǀ yaḥ ǀ aśvyena ǀ paśunā ǀ yātu-dhānaḥ ǀ
yaḥ ǀ aghnyāyāḥ ǀ bharati ǀ kṣīram ǀ agne ǀ teṣām ǀ śīrṣāṇi ǀ harasā ǀ api ǀ vṛśca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.08.01
- Maṇḍala · Anuvāka · Ṛk
- 10.07.086
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.