Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.20
Saṃhitā
त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।
प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहंतु ॥
त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् |
प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ||
tvám no agne adharā́dúdaktāttvám paścā́dutá rakṣā purástāt ǀ
práti té te ajárāsastápiṣṭhā agháśaṃsam śóśucato dahantu ǁ
tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt |
prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu ||
Padapāṭha
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् ।
प्रति॑ । ते । ते॒ । अ॒जरा॑सः । तपि॑ष्ठाः । अ॒घऽशं॑सम् । शोशु॑चतः । द॒ह॒न्तु॒ ॥
त्वम् । नः । अग्ने । अधरात् । उदक्तात् । त्वम् । पश्चात् । उत । रक्ष । पुरस्तात् ।
प्रति । ते । ते । अजरासः । तपिष्ठाः । अघऽशंसम् । शोशुचतः । दहन्तु ॥
tvám ǀ naḥ ǀ agne ǀ adharā́t ǀ údaktāt ǀ tvám ǀ paścā́t ǀ utá ǀ rakṣa ǀ purástāt ǀ
práti ǀ té ǀ te ǀ ajárāsaḥ ǀ tápiṣṭhāḥ ǀ aghá-śaṃsam ǀ śóśucataḥ ǀ dahantu ǁ
tvam ǀ naḥ ǀ agne ǀ adharāt ǀ udaktāt ǀ tvam ǀ paścāt ǀ uta ǀ rakṣa ǀ purastāt ǀ
prati ǀ te ǀ te ǀ ajarāsaḥ ǀ tapiṣṭhāḥ ǀ agha-śaṃsam ǀ śośucataḥ ǀ dahantu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.08.05
- Maṇḍala · Anuvāka · Ṛk
- 10.07.090
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.