Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.17
Saṃhitā
सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।
पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यंच॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥
संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः |
पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ||
saṃvatsarī́ṇam páya usríyāyāstásya mā́śīdyātudhā́no nṛcakṣaḥ ǀ
pīyū́ṣamagne yatamástítṛpsāttám pratyáñcamarcíṣā vidhya márman ǁ
saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ |
pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman ||
Padapāṭha
सं॒व॒त्स॒रीण॑म् । पयः॑ । उ॒स्रिया॑याः । तस्य॑ । मा । अ॒शी॒त् । या॒तु॒ऽधानः॑ । नृ॒ऽच॒क्षः॒ ।
पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒मः । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑न् ॥
संवत्सरीणम् । पयः । उस्रियायाः । तस्य । मा । अशीत् । यातुऽधानः । नृऽचक्षः ।
पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन् ॥
saṃvatsarī́ṇam ǀ páyaḥ ǀ usríyāyāḥ ǀ tásya ǀ mā́ ǀ aśīt ǀ yātu-dhā́naḥ ǀ nṛ-cakṣaḥ ǀ
pīyū́ṣam ǀ agne ǀ yatamáḥ ǀ títṛpsāt ǀ tám ǀ pratyáñcam ǀ arcíṣā ǀ vidhya ǀ márman ǁ
saṃvatsarīṇam ǀ payaḥ ǀ usriyāyāḥ ǀ tasya ǀ mā ǀ aśīt ǀ yātu-dhānaḥ ǀ nṛ-cakṣaḥ ǀ
pīyūṣam ǀ agne ǀ yatamaḥ ǀ titṛpsāt ǀ tam ǀ pratyañcam ǀ arciṣā ǀ vidhya ǀ marman ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.08.02
- Maṇḍala · Anuvāka · Ṛk
- 10.07.087
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.