Ṛgveda · Maṇḍala 10 · Sūkta 87
Ṛk 10.87.3
Saṃhitā
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च ।
उ॒तांतरि॑क्षे॒ परि॑ याहि राजं॒जंभैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥
उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम् परं च |
उतान्तरिक्षे परि याहि राजञ् जम्भैः सं धेह्य् अभि यातुधानान् ||
ubhóbhayāvinnúpa dhehi dáṃṣṭrā hiṃsráḥ śíśānó’varam páram ca ǀ
utā́ntárikṣe pári yāhi rājañjámbhaiḥ sám dhehyabhí yātudhā́nān ǁ
ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca |
utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān ||
Padapāṭha
उ॒भा । उ॒भ॒या॒वि॒न् । उप॑ । धे॒हि॒ । दंष्ट्रा॑ । हिं॒स्रः । शिशा॑नः । अव॑रम् । पर॑म् । च॒ ।
उ॒त । अ॒न्तरि॑क्षे । परि॑ । या॒हि॒ । रा॒ज॒न् । जम्भैः॑ । सम् । धे॒हि॒ । अ॒भि । या॒तु॒ऽधाना॑न् ॥
उभा । उभयाविन् । उप । धेहि । दंष्ट्रा । हिंस्रः । शिशानः । अवरम् । परम् । च ।
उत । अन्तरिक्षे । परि । याहि । राजन् । जम्भैः । सम् । धेहि । अभि । यातुऽधानान् ॥
ubhā́ ǀ ubhayāvin ǀ úpa ǀ dhehi ǀ dáṃṣṭrā ǀ hiṃsráḥ ǀ śíśānaḥ ǀ ávaram ǀ páram ǀ ca ǀ
utá ǀ antárikṣe ǀ pári ǀ yāhi ǀ rājan ǀ jámbhaiḥ ǀ sám ǀ dhehi ǀ abhí ǀ yātu-dhā́nān ǁ
ubhā ǀ ubhayāvin ǀ upa ǀ dhehi ǀ daṃṣṭrā ǀ hiṃsraḥ ǀ śiśānaḥ ǀ avaram ǀ param ǀ ca ǀ
uta ǀ antarikṣe ǀ pari ǀ yāhi ǀ rājan ǀ jambhaiḥ ǀ sam ǀ dhehi ǀ abhi ǀ yātu-dhānān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.087.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.05.03
- Maṇḍala · Anuvāka · Ṛk
- 10.07.073
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Pāyu Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.